चतुःषष्टिरूपभैरवस्तोत्रम्
(रुद्रयामलानुसारतः)
असिताङ्गो विशालाक्षो मार्तण्डो मोदकप्रियः ।
स्वच्छन्दो विघ्नसन्तुष्टः खेचरः सचराचरः ॥ १॥
रुरुश्च क्रोडदंष्ट्रश्य तथैव च जटाधरः ।
विश्वरूपो विरूपाक्षो नानारूपधरः परः ॥ २॥
वज्रहस्तो महाकायश्चण्डश्च प्रलयान्तकः ।
भूमिकम्पो नीलकण्ठो विष्णुश्च कुलपालकः ॥ ३॥
मुण्डपालः कामपालः क्रोधो वै पिङ्गलेक्षणः ।
अभ्ररूपो धरापालः कुटिलो मन्त्रनायकः ॥ ४॥
रुद्रः पितामहाख्यश्च व्युन्मत्तो वटुनायकः ।
शङ्करो भूतवेतालस्त्रिनेत्रस्तिपुरान्तकः ॥ ५॥
वरदः पर्वतावासः कपालः शशिभूषणः ।
हस्तिचर्माम्बरधरो योगीशो ब्रह्मराक्षसः ॥ ६॥
सर्वज्ञः सर्वदेवेशः सर्वभूतहृदिस्थितः ।
भीषणाख्यो भयहरः सर्वज्ञाख्यस्तथैव च ॥ ७॥
कालाग्निश्च महारौद्रो दक्षिणो मुखरोऽस्थिरः ।
संहारश्चातिरिक्ताङ्गो नागपाशः(कालाग्निश्च)प्रियङ्करः ॥ ८॥
घोरनादो विशालाङ्गो(क्षो)योगीशो दक्षसंस्थितः ।
चतुःषष्टीरूपधृग्देवो भैरवः स सदाऽवतु ॥ ९॥
॥ इति रुद्रयामलानुसारतः चतुःषष्टिरूपभैरवस्तोत्रं सम्पूर्णम् ॥
Notes:
The CatuḥṣaṣṭirūpaBhairavaStotraM चतुःषष्टिरूपभैरवस्तोत्रम् from the RudrayamalaTantraM रुद्रयालमलतन्त्रम्, contains the names of 64 forms (CatuḥṢaṣṭirūpa चतुःषष्टिरूप)of Bhairava भैरव.
The BhairavaCatuḥṣaṣṭiNāmāvaliḥ 1 भैरवचतुःषष्टिनामावलिः १ and BhairavaCatuḥṣaṣṭiNāmāvaliḥ 2 भैरवचतुःषष्टिनामावलिः २ derived from the Rudrayāmalānusārataḥ CatuḥṣaṣṭirūpaBhairavaStotraM रुद्रयामलानुसारतः चतुःषष्टिरूपभैरवस्तोत्रम् can be accessed from the respective links given below.
Proofread by Ruma Dewan