श्रीचिदम्बरेशदशश्लोकी स्तुतिः
उपमन्युमहर्षिप्रणीता
कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतिवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि ॥ १॥
कल्याणमूर्तिं कनकाद्रिचापं कान्तासमाक्रान्तनिजार्धदेहम् ।
कालान्तकं कामरिपुं पुरारिं चिदम्बरेशं हृदि भावयामि ॥ २॥
विशालनेत्रं परिपूर्णगात्रं गौरीकलत्रं दनुजारिबाणम् ।
कुबेरमित्रं सुरसिन्धुशीर्षं चिदम्बरेशं हृदि भावयामि ॥ ३॥
वेदान्तवेद्यं भुवनैकवन्द्यं मायाविहीनं करुणार्द्रचित्तम् ।
ज्ञानप्रदं ज्ञानिनिषेविताङ्घ्रिं चिदम्बरेशं हृदि भावयामि ॥ ४॥
दिगम्बरं शासितदक्षयज्ञं त्रयीमयं पार्थवरप्रदं तम् ।
सदादयं वह्निरवीन्दुनेत्रं चिदम्बरेशं हृदि भावयामि ॥ ५॥
विश्वाधिकं विष्णुमुखैरुपास्यं त्रिकोणगं चन्द्रकलावतंसम् ।
उमापतिं पापहरं प्रशान्तं चिदम्बरेशं हृदि भावयामि ॥ ६॥
कर्पूरगात्रं कमनीयनेत्रं कंसारिवन्द्यं कनकाभिरामम् ।
कृशानुढक्काधरमप्रमेयं चिदम्बरेशं हृदि भावयामि ॥ ७॥
कैलासवासं जगतामधीशं जलन्धरारिं पुरुहूतपूज्यम् ।
महानुभावं महिमाभिरामं चिदम्बरेशं हृदि भावयामि ॥ ८॥
जन्मान्तरारूढमहाघपङ्किलप्रक्षालनोद्भूतविवेकतश्च यम् ।
पश्यन्ति धीराः स्वयमात्मभावात् चिदम्बरेशं हृदि भावयामि ॥ ९॥
अनन्तमद्वैतमजस्रभासुरं ह्यतर्क्यमानन्दरसं परात्परम् ।
यज्ञाधिदैवं यमिनां वरेण्यं चिदम्बरेशं हृदि भावयामि ॥ १०॥
वैयाघ्रपादेन महर्षिणा कृतां चिदम्बरेशस्तुतिमादरेण ।
पठन्ति ये नित्यमुमासखस्य प्रसादतो यान्ति निरामयं पदम् ॥ ११॥
इति उपमन्युमहर्षिप्रणीता श्रीचिदम्बरेशदशश्लोकी स्तुतिः समाप्ता ।
(This is similar to existing chidambareshastutiH but
this has 10 verses with variations, so kept separate)
Proofread by Aruna Narayanan