व्याघ्रपादजैमिनिशेषादिकृता चिदम्बरेशनटराजशिवस्तुतिः
ईश्वरः -
चिदम्बरमिति प्रोक्तं वेदवेदान्तसंस्तुतम् ।
मां सर्वे तत्र नृत्यन्तं वर्णयन्ति मुनीश्वराः ॥
देवी -
तत्र त्वां देवदेवेशं नृत्यन्तं ते मुनीश्वराः ।
कथं स्तुवन्ति हे शम्भो श्रोतुमिच्छामि तत्स्तुतिम् ॥
सूतः -
महादेवो गिरिजया तदा सम्प्रार्थितो द्विजाः ।
स्वनृत्तचित्रं तद्देव्यै कथयामास विस्तरात् ॥
ईश्वरः -
व्याघ्रपादादयो देवि शेषाद्याः प्रमथाधिपाः ।
जैमिनिप्रमुखाः सर्वे मन्नृत्यं वर्णयन्ति च ।
तत्तेऽहं वर्णयिष्यामि सावधानमनाः श्रृणु ॥
व्याघ्रपादजैमिनिशेषादयः -
विनिहितविधिजातमुण्डमालाकलितोरःस्थल शूलमूलबाहो ।
मणीगणखचिताङ्घ्रिनूपुरोद्यत्प्रभवविदीपितदिक्तट प्रसीद ॥ १॥
डमरुकविनदोत्थितप्रकर्षप्रतिशब्दैर्बधिरीकृता (खिला) मरेन्द्र ।
करचालनखेलनोर्ध्वपादप्रतिहतभूतलनम्रमस्तनाग ॥ २॥
पतत्ताराजालस्फुटितगगनाभोगविलस-
द्विमानस्थैर्देवैः कलितसुमनोवर्षनिकरैः ।
अदभ्रादभ्राभ्रस्थलकृतनिवासैर्मुनिगणै-
र्भवज्जातं दृष्टं नटनमखिलैः सायमुमया ॥ ३॥
वारंवारमघापहारिचरणं लीलाकृताण्डस्फुट-
त्त्रुट्यत्तारपतङ्गदीप्तिविशिखैर्विध्वस्तध्वान्तं स्फुटम् ।
पातालान्तरगाम्बिकेशनखरैर्दृष्ट्वाऽभिजिह्वोल्लस-
द्रक्तान्तोत्थितलोचनोरुयुगलं नक्तञ्चरखान्तकृत् ॥ ४॥
भीमच्चारुशशाङ्कसङ्कुलमिलद्गङ्गातरङ्गोल्लस-
ल्लीलालोलजटासटाविघटनत्रुट्यन्महोडुच्छट ।
ढक्काढम्बरधांधुमध्वनिकृताहङ्कारदिक्चक्रकं
तालोद्भेदमृदङ्गकालहलकरापारप्रभेदैः सुराः ।
त्वां सेवन्ति शिवं मुकुन्दविधयः सेन्द्राः प्रदोषे मुदा ॥ ५॥
वीणापाणिनखप्रघट्टनभवैः शब्दैः सुरागैः क्वण-
द्वाणी तालकरा महेश परमानन्दोल्लसत्ताण्डव ।
शर्वाण्या सहित प्रसीद सततं सङ्गीतधारारसैः
सम्प्रीणाति शिवं प्रदोषसमये मां शङ्करं चाम्बिके ॥ ६॥
जटाहीन्दुगङ्गातरङ्गोत्तमाङ्गं लसत्पाणिपादोज्वलच्चारुनागम् ।
कृपास्रव्यपाङ्गैर्निरीक्षन्तमीशं नटड्डामरारावनाट्यत्सुरङ्गम् (?) ॥ ७॥
नन्दिभृङ्गिकृतमर्दलघोषैर्गल्लझल्लरकरैर्गणवृन्दैः ।
तण्डूचण्डकरताललयोत्थैर्नर्तनैर्मणिझणत्कृतशब्दैः ॥ ८॥
शिञ्जितैर्मधुरनूपुरघोषैर्मण्डितं च नटनं श्रुतिघोषम् ।
श्रेष्ठः सुराणां पतिरङ्घ्रिपानां रौद्रं तवार्द्रा प्रथितं च ऋक्षम् ॥ ९॥
तस्मिन्प्रभाते तप पादसूर्यं दृष्ट्वाऽभिनन्दत्यथ भक्तपद्मम् ॥ १०॥
अम्बरचर डम्बरवर घोषणशशिभूषण फणिकङ्कण गरशोषण स्मरमारण भगवन् ।
अरुणारुण चरणावित जनवीक्षण भगहारण पुरहन् ।
करुणाकर भवतारण वरुणालय कृतपारणं मुनिकारण परिपालय शिव माम् ॥ ११॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे व्याघ्रपादजैमिनिशेषादिकृता चिदम्बरेशनटराजशिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २२। २३-३७॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 22. 23-37..
Notes:
Shiva describes to Gauri, the glory of Chidambaram where the Rishi-s Vyaghrapada, Jaimini and Shesha (Patanjali) eulogized Him as Chidambaresha-Nataraja as they witness Shiva's Divine Dance.
The shloka-s pertaining to the Stuti are renumbered for readers' convenience.
Proofread by Ruma Dewan