चिदम्बरेशस्तोत्रकदम्बः

चिदम्बरेशस्तोत्रकदम्बः

श्री चित्सभेशायमङ्गलम् ॥ अयङ्किलपटतां श‍ृण्वताञ्चधर्मार्थ काममोक्षचतुर्विधपुरुषार्थसिद्धिप्रदः स्तोत्र कदम्बः । सोमयाजिभिः ब्रह्मश्री त। अप्पास्वामी दीक्षितैः संशोध्य श्री चिदम्बरनगरविराजमान श्री ज्ञानसम्बन्धविलासमुद्रणालये मुद्राख्य प्रकतीक्रितोविजयतेतरां अक्षय वर्ष अथ सम्पत्प्रदस्तवः ॥ प्रत्यूहद्ध्वान्तचण्डांशुः प्रत्यूहारण्यपावकः । प्रत्यूहसिह्मशरभः पातु नः पार्वतीसुतः ॥ चित्सभानायकं वन्दे चिन्ताधिकफलप्रदम् । अपर्णास्वर्ण कुम्भाभ कुचाश्लिष्टकलेवरम् ॥ १॥ विराड्ढृदय पद्मस्थत्रिकोणेशिवयासह । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ २॥ श्रुतिस्तम्भान्तरेचक्र युग्मेगिरिजयासह । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ३॥ शिवकामीकुचाम्भोज सव्यभागविराजितः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ४॥ करस्थ डमरुध्वान परिष्कृतरवागमः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ५॥ नारदब्रह्म गोविन्द वीणाताल मृदङ्गकैः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ६॥ जैमिनि व्याघ्रपाच्छेषस्तु तिस्मेरमुखाम्बुजः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ७॥ तिल्वविप्रैस्त्रयी मार्ग पूजिताङ्घ्रिसरोरुहः सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ८॥ मन्त्रनूपुर पद्पद्म झणज्झणि तदिन्द्मुखः । सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ९॥ सम्पत्प्रदमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् । अचलां श्रियमाप्नोति नटराज प्रसादतः ॥ १०॥ इति सम्प्रत्प्रदस्तवः । अथ अष्टमूर्ति स्तुतिः । क्षितिमूर्ते नमस्तुभ्यं जाता निक्षिति कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ११॥ जलमूर्ते नमस्तुभ्यं जाता निजलकर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १२॥ वह्निमूर्ते नमस्तुभ्यं जाता निवह्नि कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १३॥ वायुमूर्ते नमस्तुभ्यं जाता निस्पर्श कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १४॥ व्योममूर्ते नमस्तुभ्यं जाता निव्योम कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १५॥ चन्द्रमूर्ते नमस्तुभ्यं जाता निस्वान्त कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १६॥ सूर्यमूर्ते नमस्तुभ्यं जाता निदृश्य कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १७॥ यष्टृमूर्ते नमस्तुभ्यं जाता नियम्य कर्मसु । मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १८॥ अष्टमूर्तेस्स्तुतिमिमां यः पठेच्छिवसन्निधौ । किल्बिषादखिलान्मुक्तस्स्वर्गं मोक्षञ्चविन्दति ॥ १९॥ इत्यष्टमूर्ति स्तुतिः ॥ अथ षडक्षरस्तोत्रम् ॥ ``ॐ नमः शिवाय ।'' ॐअक्षर नमस्तुभ्यं परब्रह्म निकेतन । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २१॥ नटराज नमस्तुभ्यं नगराज निकेतन । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २२॥ महादेव नमस्तुभ्यं मार्ताण्ड हृदिसंस्थित । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २३॥ शितिकण्ठ नमस्तुभ्यं शिवकामि मनोहर । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २४॥ वामदेव नमस्तुभ्यं वाञ्छितार्थ प्रदप्रभो । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २५॥ यजमान नमस्तुभ्यं यज्ञमूर्ते अभयप्रद । अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ । तस्य मृत्युभयं नास्ति भवेत् कैवल्यमुत्तमम् ॥ २६॥ इति षडक्षरस्तोत्रम् ॥ इन्द्रियाणां पतीन्नौमि तत्तद्दोष निवृत्तये । दिग्वातार्क प्रचतो अश्वि वह्नीन्द्रोपेन्द्र मृत्युकान् ॥ २७॥ मनसेमुष्यहङ्कार चित्तमायाधिपांस्तथा । चन्द्रं बृहस्पतिं रुद्रं क्षेत्रञ्च महेश्वरम् । इति इन्द्रियजनित दोष निवृत्त्यर्थं तत्तदधिष्ठान देवानां वन्दनम् ॥ २८॥ अथ रक्षास्तवः पुरस्तात् पातु मनं वज्री वह्निकोणेतु शक्तिभृत् । याम्यामदण्डधरः पातु खड्गी रक्षतु नैरृते ॥ २९॥ वारुण्यां वरुणः पातु वायव्यान्दिशि मारुतः । उत्तरेधनदः पातु ऐशान्यां पातु शूलभृत् ॥ ३०॥ ऊर्ध्वं चतुर्मुखः पातु चाधस्तात् पातु शार्ङ्गभृत् । मृत्युञ्जय कृपासिन्धो नीलकण्ठ महेश्वर । ३१॥ सदा सर्वत्र मां रक्ष चित्सभेश नमोऽस्तुते । शिवकामि नमस्तुभ्यं चिन्तितार्थवरप्रदे ॥ ३२॥ मयिस्थमखिलं क्लेशमाशु नाशय शङ्करि । इति रक्षास्तवः ॥ गर्भवासां शिशुत्वञ्च कष्टयौवन वार्धके । मृत्युञ्जयञ्च संहर्तुं धीमहित्वां सभापते ॥ ३३॥ इति ध्यान श्लोकः हृदन्ते परमे व्योमन् लास्यमानं महदॄचम् । यः पश्यतिपरं ब्रह्मकैवल्यं पदमश्नुते ॥ ३४॥ कैवल्यं पदमश्नुते कैवल्यं पदश्नुत इति । इति प्राचीन पुस्तके दहरविद्याखण्डे प्रतिपादितम् ॥ हरिः ॐ मङ्गलं दिशतुमे विनायको मङ्गलं दिशतुमे षडाननः । मङ्गलं दिशतुमे सरस्वती मङ्गलं दिशतुमे चतुर्मुखः ॥ मङ्गलं दिशतुमे हरिप्रिया मङ्गलं दिशतुमे चतुर्भुजः । मङ्गलं दिशतुमे सभेश्वरी मङ्गलं दिशतुमे सभेश्वरः ॥ शुभं Encoded from Tamil Grantha lipi book by Muthuraman Krishnamurthy Proofread by Muthuraman Krishnamurthy, Aruna Narayanan
% Text title            : Chidambaresha Stotrakadamba
% File name             : chidambareshastotrakadambaH.itx
% itxtitle              : chidambareshastotrakadambaH
% engtitle              : chidambareshastotrakadambaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Muthuraman Krishnamurthy
% Proofread by          : Muthuraman Krishnamurthy, Aruna Narayanan
% Indexextra            : (Tamil Grantha)
% Latest update         : March 31, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org