चिदम्बरेशस्तोत्रकदम्बः
श्री चित्सभेशायमङ्गलम् ॥
अयङ्किलपटतां शृण्वताञ्चधर्मार्थ
काममोक्षचतुर्विधपुरुषार्थसिद्धिप्रदः स्तोत्र कदम्बः ।
सोमयाजिभिः ब्रह्मश्री त। अप्पास्वामी दीक्षितैः संशोध्य
श्री चिदम्बरनगरविराजमान श्री ज्ञानसम्बन्धविलासमुद्रणालये
मुद्राख्य प्रकतीक्रितोविजयतेतरां
अक्षय वर्ष
अथ सम्पत्प्रदस्तवः ॥
प्रत्यूहद्ध्वान्तचण्डांशुः प्रत्यूहारण्यपावकः ।
प्रत्यूहसिह्मशरभः पातु नः पार्वतीसुतः ॥
चित्सभानायकं वन्दे चिन्ताधिकफलप्रदम् ।
अपर्णास्वर्ण कुम्भाभ कुचाश्लिष्टकलेवरम् ॥ १॥
विराड्ढृदय पद्मस्थत्रिकोणेशिवयासह ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ २॥
श्रुतिस्तम्भान्तरेचक्र युग्मेगिरिजयासह ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ३॥
शिवकामीकुचाम्भोज सव्यभागविराजितः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ४॥
करस्थ डमरुध्वान परिष्कृतरवागमः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ५॥
नारदब्रह्म गोविन्द वीणाताल मृदङ्गकैः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ६॥
जैमिनि व्याघ्रपाच्छेषस्तु तिस्मेरमुखाम्बुजः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ७॥
तिल्वविप्रैस्त्रयी मार्ग पूजिताङ्घ्रिसरोरुहः
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ८॥
मन्त्रनूपुर पद्पद्म झणज्झणि तदिन्द्मुखः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ९॥
सम्पत्प्रदमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
अचलां श्रियमाप्नोति नटराज प्रसादतः ॥ १०॥
इति सम्प्रत्प्रदस्तवः ।
अथ अष्टमूर्ति स्तुतिः ।
क्षितिमूर्ते नमस्तुभ्यं जाता निक्षिति कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ११॥
जलमूर्ते नमस्तुभ्यं जाता निजलकर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १२॥
वह्निमूर्ते नमस्तुभ्यं जाता निवह्नि कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १३॥
वायुमूर्ते नमस्तुभ्यं जाता निस्पर्श कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १४॥
व्योममूर्ते नमस्तुभ्यं जाता निव्योम कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १५॥
चन्द्रमूर्ते नमस्तुभ्यं जाता निस्वान्त कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १६॥
सूर्यमूर्ते नमस्तुभ्यं जाता निदृश्य कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १७॥
यष्टृमूर्ते नमस्तुभ्यं जाता नियम्य कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १८॥
अष्टमूर्तेस्स्तुतिमिमां यः पठेच्छिवसन्निधौ ।
किल्बिषादखिलान्मुक्तस्स्वर्गं मोक्षञ्चविन्दति ॥ १९॥
इत्यष्टमूर्ति स्तुतिः ॥
अथ षडक्षरस्तोत्रम् ॥
``ॐ नमः शिवाय ।''
ॐअक्षर नमस्तुभ्यं परब्रह्म निकेतन ।
अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २१॥
नटराज नमस्तुभ्यं नगराज निकेतन ।
अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २२॥
महादेव नमस्तुभ्यं मार्ताण्ड हृदिसंस्थित ।
अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २३॥
शितिकण्ठ नमस्तुभ्यं शिवकामि मनोहर ।
अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २४॥
वामदेव नमस्तुभ्यं वाञ्छितार्थ प्रदप्रभो ।
अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥ २५॥
यजमान नमस्तुभ्यं यज्ञमूर्ते अभयप्रद ।
अनायासेन मे मुक्तिं प्रयच्छ श्री सभापते ॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति भवेत् कैवल्यमुत्तमम् ॥ २६॥
इति षडक्षरस्तोत्रम् ॥
इन्द्रियाणां पतीन्नौमि तत्तद्दोष निवृत्तये ।
दिग्वातार्क प्रचतो अश्वि वह्नीन्द्रोपेन्द्र मृत्युकान् ॥ २७॥
मनसेमुष्यहङ्कार चित्तमायाधिपांस्तथा ।
चन्द्रं बृहस्पतिं रुद्रं क्षेत्रञ्च महेश्वरम् ।
इति इन्द्रियजनित दोष निवृत्त्यर्थं तत्तदधिष्ठान देवानां वन्दनम् ॥ २८॥
अथ रक्षास्तवः
पुरस्तात् पातु मनं वज्री वह्निकोणेतु शक्तिभृत् ।
याम्यामदण्डधरः पातु खड्गी रक्षतु नैरृते ॥ २९॥
वारुण्यां वरुणः पातु वायव्यान्दिशि मारुतः ।
उत्तरेधनदः पातु ऐशान्यां पातु शूलभृत् ॥ ३०॥
ऊर्ध्वं चतुर्मुखः पातु चाधस्तात् पातु शार्ङ्गभृत् ।
मृत्युञ्जय कृपासिन्धो नीलकण्ठ महेश्वर । ३१॥
सदा सर्वत्र मां रक्ष चित्सभेश नमोऽस्तुते ।
शिवकामि नमस्तुभ्यं चिन्तितार्थवरप्रदे ॥ ३२॥
मयिस्थमखिलं क्लेशमाशु नाशय शङ्करि ।
इति रक्षास्तवः ॥
गर्भवासां शिशुत्वञ्च कष्टयौवन वार्धके ।
मृत्युञ्जयञ्च संहर्तुं धीमहित्वां सभापते ॥ ३३॥
इति ध्यान श्लोकः
हृदन्ते परमे व्योमन् लास्यमानं महदॄचम् ।
यः पश्यतिपरं ब्रह्मकैवल्यं पदमश्नुते ॥ ३४॥
कैवल्यं पदमश्नुते कैवल्यं पदश्नुत इति ।
इति प्राचीन पुस्तके दहरविद्याखण्डे प्रतिपादितम् ॥
हरिः ॐ
मङ्गलं दिशतुमे विनायको मङ्गलं दिशतुमे षडाननः ।
मङ्गलं दिशतुमे सरस्वती मङ्गलं दिशतुमे चतुर्मुखः ॥
मङ्गलं दिशतुमे हरिप्रिया मङ्गलं दिशतुमे चतुर्भुजः ।
मङ्गलं दिशतुमे सभेश्वरी मङ्गलं दिशतुमे सभेश्वरः ॥
शुभं
Encoded from Tamil Grantha lipi book
by Muthuraman Krishnamurthy
Proofread by Muthuraman Krishnamurthy, Aruna Narayanan