श्रीचिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामस्तोत्रम्

श्रीचिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामस्तोत्रम्

पूर्व पीठिका ॥ श्री शिव उवाचाष्टोत्तरशतं वक्ष्ये श‍ृणु विष्णो समाहितः । सदाशिव ऋषिच्छन्दो विराट देवो नटेश्वरः ॥ इष्ट काम्यार्थ सिद्ध्यर्थे विनियोगो वरानन । ॥ उत्तर पीठिका ॥ नाम्नामष्टोत्तरशतं स्त्रीपुंल्लिङ्गक्रमेण तु । सम्पूज्य देवदेवेशौ भेजे सर्वार्थसिद्धिदम् ॥ १॥ नमः शिवाय पञ्चार्णं ॐ जुं सः सम्पुटं जपेत् । वृत्ते मन्त्रं बहिस्त्र्यश्रे ॐ जुं सः चाष्ट पत्रके ॥ २॥ त्रियम्बकं दलाग्रे तु सन्ध्यार्णं मातृकावृतम् । यन्त्रं निक्षिप्य कलशे मण्डलं विधिवद्यजेत् ॥ ३॥ अयुतं प्रजपेन्मन्त्रं साध्यनाम पुरस्सरम् । ततः शिवो भावनन्तु समिद्भिश्चतुरङ्गलैः ॥ ४॥ दुग्धाक्तसमिधा ह्यग्नौ साहस्र षट्ककं हुनेत् । यस्तु वह्नौ जुहोत्येवं यावत्सङ्ख्येन साधकः ॥ ५॥ तावत् सङ्ख्यैस्सुधाकुम्भैरग्निं प्रीणाति शङ्करः । आव्याधिघ्नाः सदा सर्वं सहस्रमीप्सितान् वरान् ॥ ६॥ प्रदद्यादायुरादींश्च दुरुक्तात् प्रलयान्तिकान् । त्रिबीजार्णं च साध्याख्यं पालयद्वय बीजयुक् ॥ ७॥ अमृत मृत्युञ्जयार्णमथवा कमला पुटम् । अमृता च वटा चैव तिलं दूर्वा पयो घृतम् ॥ ८॥ पायसं सप्तभिर्द्रव्यैः सहस्रं जुहुयात् पृथक् । घोरजराधिव्याधीनां दाहमोहपरिभ्रमम् ॥ ९॥ ग्रहपीडाप्रशमनं शतायुर्जीवनं ततः । यजेद्धोमदिने सप्त विप्रान् सुदक्षिणान्वितम् ॥ १०॥ होमावसाने विप्राणां दद्यात् ताम्बूलदक्षिणाम् । गलूचीं खण्डशः कृत्वा चतुरङ्गुलमानकम् ॥ ११॥ जुहुयाद् दुग्ध संसिक्तं सम्यग् भानुसहस्रकम् । अभिषेकं ततः कृत्वा ह्यायुरारोग्यवर्धनम् ॥ १२॥ तिल दूर्वाऽमृताज्याभिरष्टोत्तरसहस्रकम् । जन्मर्क्षदोषशमनं निरुपद्रवमुत्तमम् ॥ १३॥ तिलामृतघृतान् हुत्वा सहस्रं मृत्युनाशनम् । छिन्नाकाश्मर्यवकुल समिद्भिर्घृतसंयुतं हुत्वा सहस्रं जन्मर्क्षे दोषघ्नं रोग नाशनम् ॥ १४॥ प्रोक्ते ध्यानजपार्चनाहुतिविधानाद्यैश्च मृत्युञ्जयं यो मन्त्री प्रजपन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः । तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः सम्पन्नाः सुसुखी च जीवति चिरं देहापदस्याच्छिवः ॥ १५॥ अथ श्रीचिदम्बरेश्वरी-श्रीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानि । ॐ चिदम्बरेश्वर्यै नमः । चिदम्बरेश्वराय नमः । हेमसभेश्यै नमः । हेमसभेशाय नमः । चित्सभेश्वर्यै नमः । चित्सभेश्वराय नमः । चिदम्बरसभानाथायै नमः । चिदम्बरसभानाथाय नमः । चिदम्बरसभापत्यै नमः । चिदम्बरसभापतये नमः । चिदम्बरपुराधीश्यै नमः । चिदम्बर पुराधीशाय नमः । चिदम्बरसभानट्यै नमः । चिदम्बरसभानटाय नमः । सभेश्वर्यै सभेश्वराय नमः । सभामूर्त्यै नमः । सभामूर्तये नमः । सुसम्राज्ञ्यै नमः । सुसम्राजेनमः । सदसस्पत्यै नमः । सदसस्पतये नमः । चिन्मय्यै नमः । चिन्मयाय नमः । चित्सभानाथायै नमः । चित्सभानाथाय नमः । नटेश्यै नमः । नटेशाय नमः । नटनायक्यै नमः । नटनायकाय नमः । सभामण्यै नमः । सभामणये नमः । सभादीप्तायै नमः । सभादीप्ताय नमः । नटराज्ञ्यै नमः । नटराजे नमः । ताण्डवेश्वर्यै नमः । ताण्डवेश्वराय नमः । पुण्डरीकपुराधीश्यै नमः । पुण्डरीकपुराधीशाय नमः । २० ॐ पुण्डरीकपुरेश्वर्यै नमः । पुण्डरीकपुरेश्वराय नमः । पुण्डरीकरुच्यै नमः । पुण्डरीकरुचये नमः । वन्द्यायै नमः । वन्द्याय नमः । पुण्डरीकाक्षसेवितायै नमः । पुण्डरीकाक्षसेविताय नमः । तिल्व रुद्राण्यै नमः । तिल्वरुद्राय नमः । महारुद्राण्यै नमः । महा रुद्राय नमः । नृत्ताङ्ग्यै नमः । नृत्ताङ्गाय नमः । नृत्तसुन्दर्यै नमः । नृत्तसुन्दराय नमः । पञ्चाक्षर्यै नमः । पञ्चाक्षराय नमः । परस्मै ज्योतिषे नमः । परस्मै ज्योतिषे नमः । सुन्दरानन्द विग्रहायै नमः । सुन्दरानन्द विग्रहाय नमः । आनन्द नटनाधीश्यै नमः । आनन्द नटनाधीशाय नमः । सच्चिदानन्दविग्रहायै नमः । सच्चिदानन्दविग्रहाय नमः । व्योम व्योम्ने नमः । व्योमव्योम्ने नमः । व्योमकेश्यै नमः । व्योमकेशाय नमः । चिन्महाव्योमताण्डवायै नमः । चिन्महाव्योमताण्डवाय नमः । अम्बराधीश्वर्यै नमः । अम्बराधीश्वराय नमः । हंस्यै नमः । हंसाय नमः । कुञ्चिताङ्घ्र्यै नमः । कुञ्चिताङ्घ्रये नमः । चिदम्बरायै नमः । चिदम्बराय नमः । ४० ॐ तिल्ववासायै नमः । तिल्ववासाय नमः । चिदीशान्यै नमः । चिदीशानाय नमः । विराज्ञ्यै नमः । विराजे नमः । तिल्व वनाधिपायै नमः । तिल्ववनाधिपाय नमः । त्रैलोक्यसुन्दर्यै नमः । त्रैलोक्यसुन्दराय नमः । तिल्ववन्यै नमः । तिल्ववनाय नमः । तिल्वपुरेश्वर्यै नमः । तिल्वपुरेश्वराय नमः । व्याघ्रचर्मधरायै नमः । व्याघ्रचर्मधराय नमः । व्याघ्रपुरेश्यै नमः । व्याघ्रपुरेशाय नमः । व्याघ्रपात्प्रियायै नमः । व्याघ्रपात्प्रियाय नमः । कृपानिध्यै नमः । कृपानिधये नमः । महाकाल्यै नमः । महाकालाय नमः । व्याघ्रपादप्रपूजितायै नमः । व्याघ्रपादप्रपूजिताय नमः । मन्त्रविग्रहायै नमः । मन्त्रविग्रहाय नमः । ओङ्कार्यै नमः । ओङ्काराय नमः । सिंहवर्म प्रपूजितायै नमः । सिंहवर्मप्रपूजिताय नमः । जटाधरायै नमः । जटाधराय नमः । ललाटाक्ष्यै नमः । ललाटाक्षाय नमः । पतञ्जलिवरप्रदायै नमः । पतञ्जलि वरप्रदाय नमः । अपस्मार हरायै नमः । अपस्मारहराय नमः । ६० ॐ सर्पभूषणायै नमः । सर्पभूषणाय नमः । फणिराट्प्रियायै नमः । फणिराट् प्रियाय नमः । महाकामेश्वर्यै नमः । महाकामेश्वराय नमः । वज्रेश्वर्यै नमः । वज्रेश्वराय नमः । प्रासाद विग्रहायै नमः । प्रासादविग्रहाय नमः । आनन्दताण्डवायै नमः । आनन्दताण्डवाय नमः । रक्तपादायै नमः । रक्तपादाय नमः । सुन्दरताण्डवायै नमः । सुन्दरताण्डवाय नमः । हरिप्रियायै नमः । हरिप्रियाय नमः । हरायै नमः । हराय नमः । शाम्भव्यै नमः । शम्भवे नमः । ईश्वर्यै नमः । ईश्वराय नमः । जैमिनिप्रियायै नमः । जैमिनिप्रियाय नमः । मणिनूपुरपादायै नमः । मणिनूपुरपादाय नमः । श्रीचक्रवासायै नमः । श्रीचक्रवासाय नमः । उमापत्यै नमः । उमापतये नमः । त्रिलोचनायै नमः । त्रिलोचनाय नमः । शूलपाणये नमः । शूलपाणये नमः । भूतेश्यै नमः । भूतेशाय नमः । वृषभध्वजायै नमः । वृषभध्वजाय नमः । ८० ॐ श्रीचक्रप्रियायै नमः । श्रीचक्रप्रियाय नमः । उग्राङ्ग्यै नमः । उग्राङ्गाय नमः । त्रिपुरायै नमः । त्रिपुराय नमः । त्रिपुरेश्वर्यै नमः । त्रिपुरेश्वराय नमः । मन्त्रमूर्त्यै नमः । मन्त्रमूर्तये नमः । सभाचक्रायै नमः । सभा चक्राय नमः । चक्र राज्ञ्यै नमः । चक्र राजे नमः । चक्र विग्रहायै नमः । चक्र विग्रहाय नमः । परप्रकाशायै नमः । परप्रकाशाय नमः । शिवकामसुन्दर्यै नमः । शिवकामसुन्दराय नमः । परात्परायै नमः । परात्पराय नमः । परमेश्वर्यै नमः । परमेश्वराय नमः । सभेश्यै नमः । सभेशाय नमः । श्रीमद्दभ्रसभेश्वर्यै नमः । श्रीमद्दभ्रसभेश्वराय नमः । महेश्वर्यै नमः । महेश्वराय नमः । महादेव्यै नमः । महादेवाय नमः । शङ्कर्यै नमः । शङ्कराय नमः । चन्द्रशेखरायै नमः । चन्द्रशेखराय नमः । ईशायै नमः । ईशाय नमः । तत्पुरुषायै नमः । तत्पुरुषाय नमः । १०० ॐ अघोरायै नमः । अघोराय नमः । वामायै नमः । वामाय नमः । सद्यायै नमः । सद्याय नमः । सदाशिवायै नमः । सदाशिवाय नमः । भुवनेशायै(श्यै)नमः । भुवनेशाय नमः । विश्वनाथायै नमः । विश्वनाथाय नमः । शिवायै नमः । शिवाय नमः । त्रिपुरसुन्दर्यै नमः । त्रिपुरसुन्दराय नमः । १०८ ॐ श्रीशिवकामसुन्दरीसमेत श्रीचित्सभेश्वराय नमः । इति श्रीचिदम्बररहस्योक्तानि श्रीचिदम्बरेश्वरी श्रीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानि । Proofread by Aruna Narayanan
% Text title            : chidambareshvarIchidambareshvarasammelanAShTottarashatanAma
% File name             : chidambareshvarIchidambareshvarasammelanAShTottarashatanAma.itx
% itxtitle              : chidambareshvarIchidambareshvarasammelanAShTottarashatanAmAnI
% engtitle              : chidambareshvarIchidambareshvarasammelanAShTottarashatanAma
% Category              : shiva, aShTottarashatanAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Latest update         : May 14, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org