श्रीचिदम्बरेश्वर श्रीनटराज देवालयस्थ देवतास्तोत्रम्

श्रीचिदम्बरेश्वर श्रीनटराज देवालयस्थ देवतास्तोत्रम्

श्रीगणेशाय नमः । श्रीचित्सभेशाय नमः । १. श्रीगोपुराणि (दक्षिणगोपुरद्वारे अन्नमयप्राकारे) नमामि गोपुराणीश तव मूर्त्यन्तराण्यहम् । तान्यद्य परया भक्त्या मुक्तये नटनायक ॥ १॥ २. श्रीनन्दिकेशः नन्दिकेश महाभाग शिवध्यानपरायण । नटेश्वरस्य सेवार्थं अनुज्ञां देहि मे प्रभो ॥ २॥ ३. श्रीजयः (गोपुरपश्चिमे) जयाय जयरूपाय गोपुरद्वारवर्तिने । जयदाय नटेशानरक्षकाय नमोऽस्तुते ॥ ३॥ ४. श्रीविजयः (गोपुरपूर्वे) विजयाय नमस्तुभ्यं भक्तेभ्यो जयदायिने । महेशानद्वाररक्षां कुर्वते भयहारिणे ॥ ४॥ ५. श्रीगणेशः श्रीगुरुमूर्तिश्च (प्राणमयप्राकारे) दक्षिणाभिमुखं देवं गणेशं गुरुमेव च । विघ्नानां च विनाशाय विद्यालाभाय च स्तुमः ॥ ५॥ ६. श्रीकार्तिकेयः उत्तराभिमुखं स्कन्दं कार्तिकेयं महाप्रभुम् । वन्दे वाञ्छितलाभाय स्त्रीणां स्तन्यप्रवर्धकम् ॥ ६॥ ७. श्रीमूषिकेन्द्रः मूषिकेन्द्र नमस्तुभ्यं गणेशध्यानतत्पर । गणेशस्य तु सेवार्थं अनुज्ञां दातुमर्हसि ॥ ७॥ ८. श्रीत्रिशिवविनायकः (मुक्कुरुणिविनायकः) त्रिशिवाख्यं च वरदं गजवक्त्रं सलड्डुकम् । दन्तपाशाङ्कुशधरं वन्देऽहं गणनायकम् ॥ ८॥ ९. श्रीविजयसुब्रह्मण्यः (पश्चिमगोपुरदक्षिणभागे) मयूरपिञ्छावलिमेघपङ्क्तेः मध्ये सहस्रांशुमिवोदयन्तम् । रिपौ च पाणौ च सदा दधन्तं दण्डं भजे षण्मुखमाशुतुष्टिदम् ॥ ९॥ १०. श्रीकल्पकविनायकः यस्य स्मरणमात्रेण सर्वाः सिद्ध्यन्ति सिद्धयः । तं गणेशमहं वन्दे कल्पकाख्यमहर्निशम् ॥ १०॥ ११. श्रीबिल्ववृक्षः मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय बिल्ववृक्षाय ते नमः ॥ ११॥ १२. श्रीनागराजः नागराज नमस्तुभ्यं देवेश हरभूषण । विष्णुतल्प नमस्तेऽस्तु सर्पभीतिं निवारय ॥ १२॥ १३. श्रीवीरसुब्रह्मण्यः वल्लीसेनायुतं मुत्तुकुमारस्वामिनं प्रभुम् । तारकघ्नं महावीरसुब्रह्मण्यमुपास्महे ॥ १३॥ १४. श्रीसुन्दरेश्वरः सुन्दरं मथुरानाथं मीनाक्षीवल्लभं शिवम् । चिदम्बरकृतावासं सुन्दरेशमहं भजे ॥ १४॥ १५. श्रीमीनाक्षी जगदम्ब कदम्बमूलवासे कमलामोदमुखेन्दुमन्दहासे । मदमन्दिरचारुदृग्विलासे मयि मीनाक्षि कृपां विधेहि दासे ॥ १५॥ १६. श्री आदिविनायकः शिवगङ्गापश्चिमस्थदेशे स्तम्भैकसंयुते । मण्डपे संस्थितं आदिविनायकमुपास्महे ॥ १६॥ १७. श्रीचित्रगुप्तः चित्रगुप्तं महाप्राज्ञं साक्षिणं सर्वदेहिनाम् । नमामि धर्माधर्मज्ञं लेखिनीपत्रधारिणम् ॥ १७॥ १८. श्रीचक्रं श्रीचक्रं शिवशक्त्यैक्यबोधकं यन्त्रमुत्तमम् । सर्वकामप्रदं सर्वदेवेड्यं समुपास्महे ॥ १८॥ १९. श्रीनन्दिकेशः नन्दिकेश महाभाग शिवाध्यानपरायण । महेश्वर्या सुसेवार्थं अनुज्ञां दातुमर्हसि ॥ १९॥ २०. शिवकामसुन्दरी श्रीमच्चित्पुरवासिनीं भयहरां ज्ञानप्रदां निर्मलां श्रीमद्ब्रह्मनुतां चराचरमयीं सर्वार्थसिद्धिप्रदाम् । श्रीमत्षण्मुख विघ्नराजजननीं श्रीमज्जगन्मोहिनीं कल्हारं जपसृच्छुकां करिकरां देवीं सदा भावये ॥ २०॥ २१. सप्त मातरः ब्राहीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा । वाराहीं नारसिंहीं च चामुण्डां प्रणमाम्यहम् ॥ २१॥ २२. श्रीचण्डिकेशी शिवकामीपदाम्भोज परिस्फुरितमानसे । देव्यास्सेवाफलं देहि चण्डिकेशि नमोऽस्तुते ॥ २२॥ २३. श्रीपृथ्वीदेवी इक्षुशालियवसस्यफलाढ्यां पारिजाततरुशोभितमूले । स्वर्णरत्नमणिमण्डपमध्ये चिन्तये सकललोकधरित्रीम् ॥ २३॥ २४. श्रीदुर्गा शरणमसि सुराणां सिद्धविद्याधराणां मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् । नृपतिगृहगतानां व्याधिभिः पीडितानां त्वमसि शरणमेका देवि दुर्गे नमस्ते ॥ २४॥ २५. श्रीमयूरेशः मयूरेश नमस्तुभ्यं षण्मुखध्यानतत्पर । षण्मुखस्य सुसेवार्थमनुज्ञां दातुमर्हसि ॥ २५॥ २६. श्री पाण्ड्यनायकषण्मुखसुब्रह्मण्यः षड्वक्त्रं शिखिवाहनं त्रिणयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं-धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशञ्च वरदं दोर्भिर्दधानं सदा वन्दे सिद्धिदमीश्वरं शिवसुतं स्कन्दं सुराराधितम् ॥ २६॥ २७. श्रीवल्ली स्कन्दस्य दक्षिणेभागे स्थितां पङ्कजधारिणीम् । दक्षे लम्बकरां श्यामां वल्लीदेवीं नमाम्यहम् ॥ २७॥ २८. श्रीदेवसेना गुहस्य वामभागस्थां पीतामुत्पलधारिणीम् । वामे लम्बकरां देवसेनां नौमि महेन्द्रजाम् ॥ २८॥ २९. श्रीजयमुरुकः वर्।(श्रीजयमुरुगः) जयानन्दभूमन् जयापारधामन् जयामोघकीर्ते जयानन्दमूर्ते । जयानन्दसिन्धो जयाशेषबन्धो जय त्वं सदा मुक्तिदानेशसूनो ॥ ३०. श्रीयमधर्मराजः नीलपर्वतसङ्काशं रुद्रकोपसमुद्भवम् । कालं दण्डधरं देवं वैवस्वतमुपास्महे ॥ ३०॥ ३१. श्रीकालहस्तीश्वरः दत्त्वा स्वमांसनयने शबरोऽपि यस्मै दूरीचकार महतीमपि कालभीतिम् । वन्दे समस्तसुलभार्चितपादपद्मं तं कालहस्तीशमपारदयाम्बुराशिम् ॥ ३१॥ ३२. श्रीज्ञानप्रसूनाम्बिका श्रीकालहस्तीश्वरधर्मपत्नीं ज्ञानप्रसूनेति प्रसिद्धनाम्नीम् । ज्ञानप्रदात्रीं परमाम्बिकां तां ज्ञानेष्टसिद्ध्यै प्रणमामि नित्यम् ॥ ३२॥ ३३. नव लिङ्गानि मध्यस्थं भास्करेशं च पश्चादङ्गारकप्रभुम् । शुक्रेशं सोमनाथं च बुधेशं च गुरुप्रभुम् ॥ ३३॥ शनीशं राहुनाथं च केत्वीशं च सदा नुमः । एतेषां पूजनेनैव प्रसीदेयुः नव ग्रहाः ॥ ३४॥ ३४. श्रीशिवगङ्गा विष्णोस्सङ्गतिकारिणी शिवजटाजूटाटवीचारिणी प्रायश्चित्तनिवारिणी जलकणैः पुण्यौघविस्तारिणी । भूभृत्कन्दरदारिणी निजजले मज्जज्जनोत्तारिणी श्रीमचित्खपुरे स्थिता विजयते गङ्गा शिवेत्यन्विता ॥ ३५॥ ३५. श्रीजम्बुकेश्वरः श्रुत्यन्तवेद्य महसे किटिहंसरूप गोविन्दपद्मभवमृग्यपदाब्जमूर्धन् । भूयोऽखिलाण्डरमणी सततार्चिताय श्रीजम्बुमूलनिलयाय नमोभवाय ॥ ३६॥ ३६. श्रीतीर्थालोकन गणपतिः स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् । वासरमणिरिव तमसां राशिं नाशयति विघ्नानाम् ॥ ३७॥ ३७. श्रीकैलासनाथः कैलासनाथं विश्वेशं पार्वती प्राणवल्लभम् । कृपालुं जगदाधारं वन्दे सम्पत्समृद्धिदम् ॥ ३८॥ ३८. श्रीसोमनाथः वेदोपगीतं भुवनेश्वरं च तेजस्विनं सर्वमनोऽभिरामम् । श्रीसोमनाथं भुजगेन्द्रहारं नमामि नित्यं भवरोगवैद्यम् ॥ ३९॥ ३९. श्रीगङ्गाधरः गङ्गाधरं दशभुजं सर्वाभरणभूषितम् । नीलग्रीवं शशाङ्काङ्कं नागभूषणमाश्रये ॥ ४०॥ ४०.श्रीकलाधरः कलाधरं महादेवं कालकालं कलाप्रियम् । शिवं शिवकरं नॄणां शिवाजानिमुपास्महे ॥ ४१॥ ४१. श्रीपुरुषमृगः ध्यानैकनिष्ठं पुरुषमृगं भक्तवरं परम् । शिवसेवाफलप्राप्त्यै नमामि शिवसन्निधौ ॥ ४२॥ ४२. श्रीआम्रफलविनायकः विनायकं चाम्रफलहस्तं विघ्नविनाशकम् । भक्तेभ्यः फलदातारं नमामि द्विरदाननम् ॥ ४३॥ ४३. अन्नपूर्णा अन्नपूर्णे विशालाक्षि विश्वनाथमनोहरि । चिदम्बरकृतावासे सम्पूर्णान्नं प्रयच्छ मे ॥ ४४॥ ४४. श्री सोमास्कन्दमूर्तिः सोमास्कन्दं सुरपतिं सुन्दरं सोमशेखरम् । सोमसूर्याग्निनेत्राणि दधतं प्रणमाम्यहम् ॥ ४५॥ ४५. श्रीशरभेश्वरः योऽभूत्सहस्रांशु शतप्रकाशः नृसिंहसङ्क्षोभसमात्तरूपः । सपक्षिसिंहाकृतिरष्टपादः पायादपायात् शरभेश्वरो नः ॥ ४६॥ ४६. श्रीऊर्ध्वताण्डवमूर्तिः वाणीवल्लभ वन्द्य वैभवयुतं वन्दारुचिन्तामणिं वाताशाधिपभूषणं वरकृपावारान्निधिं श्रीकरम् । ऊर्ध्वानन्दविशेषताण्डवकरं श्रीनृत्तराजेश्वरं वामाङ्गाप्तवराङ्गनं शिवमहं श्रीमन्नटेशं भजे ॥ ४७॥ ४७. श्रीकालसंहारमूर्तिः मृत्युञ्जय महारुद्र पाहि मां शरणागतम् । जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ ४८॥ ४८. श्रीमहालक्ष्मीः भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना । रत्नौघाबद्धमौलिः विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रियै नः ॥ ४९॥ ४९. श्रीदण्डायुधपाणिः दण्डायुधधरं देवं मुरुकं बालरूपिणम् । सुब्रह्मण्यं सुरेशानं सर्वाभीष्टप्रदं भजे ॥ ५०॥ ५०. श्रीआकाशविनायकः (द्रविडवेदप्रदर्शकः) आकाशस्थं द्राविडश्रीवेदसन्दर्शकं प्रभुम् । महागणपतिं चोलभूपवन्दितमाश्रये ॥ ५१॥ ५१. श्रीमायूरनाथः मयूररूपधारिण्या पार्वत्या पूजितं शिवम् । मयूरनाथमीशानं प्रणमामि महेश्वरम् ॥ ५२॥ ५२. श्रीमयूरेशः शक्तिहस्तं विरूपाक्षं मणिकुण्डलधारिणम् । श्यामलातनयं स्कन्दं मयूरेशं नमाम्यहम् ॥ ५३॥ ५३. श्रीमयूरगणपतिः गणेशं पार्वतीसूनुं मयूरपदपूर्वकम् । मलत्रयापहन्तारं चन्द्रचूडामणिं भजे ॥ ५४॥ ५४. द्राविडवेदप्रवर्तकाः शिवभक्ताग्रेसराः चत्वारः वागीश ज्ञानसम्बन्धमणिवाचकसुन्दरान् । द्राविडश्रीवेदगान गायकान् संश्रये मुदा ॥ ५५॥ ५५. श्रीदक्षिणामूर्तिः स्फटिकरजतवर्णं मौक्तिकीमक्षमालां अनलकलशविद्यां ज्ञानमुद्राः कराब्जैः । दधतमुरगकक्षं चन्द्रचूडं त्रिणेत्रं वटतरुसुखवासं दक्षिणामूर्तिमीडे ॥ ५६॥ ५६. श्रीपल्लीशः पल्लीशाय नमस्तुभ्यं परमेशाय ते नमः । पल्लीपतनजं दोष निवारय सुखं कुरु ॥ ५७॥ ५७. वल्लभागणपतिः वन्दे महागणपतिं मदनारिसूनुं वामोरुसुस्थवनिताभुजवेष्टिताङ्गं वल्लीशपूर्वजमभीष्टदमाश्रितानां वाणीपतिप्रमुखदेवगणार्चिताङ्घ्रिम् ॥ ५८॥ ५८. श्रीजगन्मोहनगणपतिः गिरिजाहस्तलिखित चित्रभित्तिविभूषणम् । जगतां मोहकं देवं वन्दे गणपतिं सदा ॥ ५९॥ ५९. श्रीनन्दिकेश्वरः नन्दिकेश महाभाग शिवध्यानपरायण । उमाशङ्करसेवार्थमनुज्ञां दातुमर्हसि ॥ ६०॥ ६०. श्रीमूलनाथः जटातटी जह्रुकुमारिकायाः ताटङ्किता यस्य तरङ्गसङ्घैः । तस्मै महिम्नामवसानसीम्ने श्रीमूलनाथाय नमश्शिवाय ॥ ६१॥ ६१. श्रीउमा पार्वती नमामि मेनातनयाममेयां उमाम्बिकामानतनन्ददात्रीम् । विशालनेत्रां प्रणमामि गौरीं चतुर्भुजां दक्षिणमूलनाथाम् ॥ ६२॥ ६२. श्रीविश्वनाथः वाचामगोचरमनेकगुणस्वरूपं गौरीनिरन्तरविभूषितवामभागम् । वागीश विष्णुसुरसेवितपादपीठं वन्दे चिदम्बरपतिं शिवविश्वनाथम् ॥ ६३. श्रीएकाम्रेश्वरः कामाक्ष्या कवितादात्र्या काञ्च्यामाम्रतरोरधः । पूजितं चित्पुरे वन्दे एकाम्रेश्वरमुत्तमम् ॥ ६४॥ ६४. श्रीकल्पकवृक्षः कल्पवृक्ष नमस्तुभ्यं देववृक्ष नमोऽस्तु ते । त्वदीयमूलनिकटे वाञ्छितं सुलभं भवेत् ॥ ६५॥ ६५. श्रीवैद्यनाथः अनवधिदयापीयूषाम्भोधिसारमयं निजस्मरणसमयालीढाशेषामयग्रहपीडनम् । निटिलनयनज्योतिः स्वाहाकृतासमसायकं जयतु महितं तेजः श्रीवैद्यनाथसमाह्वयम् ॥ ६६॥ ६६. श्री दैवनायकी नमामि भवसन्तापनिर्वापणसुधानदीम् । श्री दैवनायकीं देवीं कान्तां चन्द्रार्धशेखराम् ॥ ६७॥ ६७. श्री विनायकः महागणपतिं वन्दे महाविघ्ननिवारणम् । महादेवसुतं देवं महाशैलसुतासुतम् ॥ ६८॥ ६८. श्रीत्रिसहस्रमुनीश्वरः नटराजसमं देवं त्रिसहस्रमुनीश्वरम् । नटेशपूजकं वन्दे तिल्लारण्यनिवासिनम् ॥ ६९॥ ६९. श्रीअर्धनारीश्वरः यदर्धाङ्गं नारी विलसति पराकान्तिरुचिरा पराङ्गं पुंरूपं जयति च जटाजूटरुचिरम् । सदा श‍ृङ्गारित्वं वहति वपुषैवं त्रिभुवने नमस्तस्मै कस्मैचिदखिलविवर्ताय महसे ॥ ७०॥ ७०. श्रीसुन्दरविनायकः वामाङ्कारूढ वामोरुवक्षोजानीतपुष्करम् । विघ्नवारणहर्यक्षं विघ्नराजमुपास्महे ॥ ७१॥ ७१. श्रीमहालिङ्गं महालिङ्गं महाभागं महेश्वरमुमापतिम् । महासेनगुरुं वन्दे महाभयनिवारणम् ॥ ७२॥ ७२. श्रीबृहत्सुन्दरकुचाम्बा महालिङ्गस्य महिषीं महनीयां दयानिधिम् । श्री बृहत्सुन्दरकुचामम्बां वन्देऽखिलेष्टदाम् ॥ ७३॥ ७३. श्रीचण्डिकेशः मूलनाथ-पदाम्भोज परिस्फुरितमानस । शम्भोस्सेवाफलं देहि चण्डिकेश नमोऽस्तुते ॥ ७४॥ ७४. श्रीअरुणाचलेश्वरः आधाराचल कैतवादतिचिरं पिण्डीकृतं पावकं रक्षन्दग्धुमिवाखिलं प्रतिमुहुः कल्पान्तकाले जगत् । पायान्नः करुणामृतोर्मिसरलैरालोकनैरानतान् एणाङ्कार्धशिखायुतः स भगवान् शोणाचलाधीश्वरः ॥ ७५॥ ७५. श्रीशास्ता हरेः श्रीमोहिनीरूपधारिणः श्रीशिवस्य च । जातं शास्तारमीशानं वन्दे शक्तिद्वयान्वितम् ॥ ७६। ७६. श्रीदेवसभास्थदेवाः देवतानां सभा यत्र राजते तत्र संस्थितान् । देवान् देवींश्च भक्तांश्च प्रणमामि वरप्रदान् ॥ ७७॥ ७७. श्रीकञ्चुकनाथः (शट्टनाथः) देवो भैरवनामवान् शुनि महादेवाज्ञया यः स्थितः वृद्धं वामनमेत्य वक्षसि जघानैकेन तं पाणिना । उत्कृत्य त्वचमस्य कञ्चुकतया चात्मानमस्मिन् दधौ तं वन्दे सुखदं चिदम्बरपुरे श्रीशट्टनाथाह्वयम् ॥ ७८॥ ७८. श्रीनवग्रहाः सूर्याय लोकगुरवे धरणीसुताय शुक्राय शीतरुचये विधुनन्दनाय । इन्द्रादिदेवगुरवे शनिराहवे च केतुग्रहाय शुभदाय नमांसि नित्यम् ॥ ७९॥ ७९. श्रीशङ्खध्मविनायकः कल्पान्तकाले शिशुरूपधारी शङ्खं समादाय महास्वनेन । दध्मौ हि यः काञ्चनसद्मनाथं शङ्खघ्मविघ्नेश्वरमाद्यमीडे ॥ ८०॥ ८०. श्रीअर्धयामसुन्दरः सुन्दरं शिवरक्षायां तत्परं शिवकिङ्करम् । नमामि शिवसेवायाः फललाभाय भास्वरम् ॥ ८१॥ ८१. श्रीगरुडः वैनतेयं च पक्षीन्द्रं विष्णुवाहं महोत्तमम् । सर्पारिं गरुडं वन्दे सर्पभीतिनिवारकम् ॥ ८२॥ ८२. श्रीशङ्करनारायणौ वन्दे शङ्खकपाल भूषितकरौ मालास्थिमालाधरौ देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ । द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ पापं मे हरतां सदा हरिहरौ श्रीवत्स गङ्गाधरौ ॥ ८३॥ नारायणं हृदि विभाव्य तदीयहार्दा- काशे शिवं गिरिजया सहितं नटेशम् । सञ्चिन्तयेत्सततमेवमुपासनेन सिद्धिं लभेत नियतां निरुपाधिकां ताम् ॥ ८४॥ ८३. श्रीगोविन्दराजसन्निधौ हिरण्यनरसिंहः स्तम्भेऽस्मिन्नपि सत्यमस्ति स हरिः तर्हीह हन्याममुं विष्णुं वञ्चितदानवं मम रिपुं धूर्तं महामायिनम् । इत्याक्रुश्य रुषा हिरण्यकशिपुं स्तम्भं विभेत्तुं पदा घ्नन्तं यस्तरसा जघान भगवान् तं श्रीनृसिंहं भजे ॥ ८५॥ ८४. श्रीसुदर्शनं सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् । ज्वलत्पावकसङ्काशं श्रीचक्रं प्रणमाम्यहम् ॥ ८६॥ ८५. श्रीपाञ्चजन्यं क्षीरसागरसञ्जातं विष्णुना विधृतं करे । पूजितं सर्वदेवैश्च पाञ्चजन्यं नमाम्यहम् ॥ ८७॥ ८६. श्रीवेणुगोपालः रुक्मिणीसत्यभामाभ्यां संयुतं देवकीसुतम् । गीतोपदेशकं वेणुगोपालं नौमि सुन्दरम् ॥ ८८॥ ८७. श्रीपतञ्जलिः अनसूयासुतं देवमादिशेषं पतञ्जलिम् । अत्रेस्सूनुं महाभाष्यरचितारमहं भजे ॥ ८९॥ ८८. श्रीकण्वः कण्वं महर्षिप्रवरं काण्वशाखाप्रवर्तकम् । शकुन्तलापोषकं तं ज्ञानिनं प्रणमाम्यहम् ॥ ९०॥ ८८. श्रीगरुडारूढः दक्षहस्ते चक्रधरं वामहस्ते च शङ्खकम् । दधतं गरुडारूढमूर्तिं विष्णुं भजेऽन्वहम् ॥ ९१॥ ९०. श्रीयोगनरसिंहः प्रह्लादाह्लादकं योगनरसिंहं नतार्थदम् । शङ्कराचार्य सुखदमुत्तराभिमुखं भजे ॥ ९२॥ ९१. श्रीरामपादद्वयं रामचन्द्रपदाम्भोजद्वयं संसारतारकम् । अहल्यारूपदातारं परमं प्रणमाम्यहम् ॥ ९३॥ ९२. श्रीविष्वक्सेनः यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनमुपास्महे ॥ ९४॥ ९३. श्रीआञ्जनेयः आञ्जनेयं महाप्राज्ञं रुद्रस्यांशं महाबलम् । कपिवर्यं मारुतिं च हनुमन्तं नमाम्यहम् ॥ ९५॥ ९४. ॥ श्रीगोविन्दराजः ॥ श्रीमान्क्षीरार्णवान्तः फणिपतिशयने चन्द्रखण्डातिगौरे भूमानीलासमेतः सकल भुवनसंरक्षणोपायचिन्ताम् । निद्राव्याजेन कुर्वन् निरवधिमहिमा नित्यमुक्ताभिवन्द्यः शेते गोविन्दराजः प्रदिशतु सुतरां सन्ततं मङ्गलं नः ॥ ९६॥ ९५. (शठारिः) श्री रामपादुका रामपादसहधर्मचारिणीं पादुकां निखिलपातकच्छिदम् । तामशेषजगतामधीश्वरीं भावयामि भरतादिदेवताम् ॥ ९७॥ ९६. श्रीनृत्तविनायकः मातामहमहाशैलं महस्तदपितामहम् । पिण्डीकृतमहाविघ्नं नृत्तविघ्नेश्वरं भजे ॥ ९८॥ ९७. श्रीलिङ्गोद्भवः पार्श्वयोः ब्रह्मविष्णुभ्यां स्रीरूपाभ्यां शिवाज्ञया । संसेवितं महेशानं लिङ्गोद्भवमहं भजे ॥ ९९॥ ९८. श्रीषडाननमूर्तिः वन्दे सिन्दूरकान्तिं शरविपिन भवं श्रीमयूराधिरूढं षड्वक्त्रं देवसेनामधुरिपुतनयावल्लभं द्वादशाक्षम् । शक्तिं बाणं कृपाणं ध्वजमपि गदां चाभयं दक्षहस्तैः चापं वज्रं सरोजं कटकमपि वरं शूलमन्यैर्दधानम् ॥ १००॥ ९९. श्रीशयनागारे शिवभोगसुन्दरी शिवभोगसुन्दरि नमस्ते त्रिणयनवामाङ्कवासिनि नमस्ते । शिवकामसुन्दरि नमो नतजनकैवल्यदायिनि नमस्ते ॥ १०१॥ १००. श्रीआकाशलिङ्गं प्रपन्नजनसन्दोह सर्वकल्याणदायकम् । आकाशलिङ्गं वन्देऽहं आधिव्याधिप्रणाशकम् ॥ १०२॥ १०१. श्रीजैमिनिः व्यासशिष्यं जैमिनिं च कर्मकाण्डप्रवर्तकम् । चिदम्बरनटेशानदर्शने तत्परं मुनिम् ॥ १०३॥ १०२. श्री भिक्षाटनः ब्रह्माण्डस्थित भूतजातहृदयप्रोद्यन्ति कामान्यहो यः पूर्वं सहसा प्रपूरयति बहुप्रीत्या भवानीपतिः । सोऽयं सर्ववसुन्धरापतिरपि स्त्रीभ्यश्च भिक्षाटनः सञ्जातः कृपयेति वैभवयुतं देवं नमामो वयम् ॥ १०४॥ १०३. क्षेत्रपालः नीलरुचिवेदकरवह्रिनयनं तं शूलककपालडमरुं च सहपाशम् । नग्नशुन वाहनसकिङ्किणि विभूषं प्रोच्चगतिकेशधर सर्पवरहारम् ॥ १०४. व्याघ्रपादः माध्यन्दिन सुतं शान्तं वसिष्ठभगिनीपतिम् । उपमन्योश्च पितरं व्याघ्रपादं नमाम्यहम् ॥ १०६॥ १०५. श्रीदण्डी नटेश दक्षिणे पार्श्वे स्थितं भक्तवरं शुभम् । शिवसेवां प्रकुर्वन्तं दण्डिनं प्रणमाम्यहम् ॥ १०७॥ १०६. श्रीपतञ्जलिः योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ १०८॥ १०७. श्रीमुण्डी नटेशवामपार्श्वे तु संस्थितं मुनिपुङ्गवम् । पतञ्जलिसमेतं च मुण्डिनं प्रणमाम्यहम् ॥ १०९॥ १०८. श्रीनन्दिकेश्वरः नन्दिकेशं महाभागं शिवध्यानपरायणम् । अष्टमूर्तेरधिष्ठानं नमामि सुयशापतिम् ॥ ११०॥ १०९. श्रीचित्सभा वामाद्या नवशक्तयो यदुपरि श्रीस्वर्णकुम्भा नवै- तस्यां चिन्मयसंसदि प्रतनुते नृत्तं नटेशः सदा । तद्वामे नगजा रहस्यमपि तद्दक्षेऽस्ति चैदम्बरं श्रीव्याघ्राङ्घ्रिपतञ्जली मुनिवरौ तत्पार्श्वयोः संस्थितौ ॥ सभां नवाभां नटराजराजप्रसिद्धनाट्यागमदिव्यरङ्गम् । आनन्दनृत्तस्य वितानभूतां श्रीचित्सभां नित्यमहं नमामि ॥ ११०. श्रीनटराजराजः वेदान्तोद्गीतरूपं ज्वलनडमरुकं धारयन्तं कराभ्यां अन्याभ्यां डोलमुद्रामभयमपि सदाऽपस्मृतौ दक्षपादम् । विन्यस्याकुञ्चितेन प्रणमदखिलदं वामपादेन नित्यं देव्या साकं सभायां रचयति नटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १११. श्री शिवकामसुन्दरी श्री शिवकामसुन्दरीं तामखिलजगन्मातरं कृपार्द्रहृदम् । श्रीचित्सभेशमहिषीं चिदम्बरक्षेत्रवासिनीं वन्दे ॥ ११४॥ ११२. श्रीरहस्यं श्री चक्रादिविशेषयन्त्रघटितं भित्तिस्वरूपं सदा- नन्दज्ञानमयं नटेशशिवयोः सम्मेलनं बोधयत् । श्रीजाम्बूनदबिल्वपत्ररचितैः मालागणैः लक्षितं कस्तूरीमसृणं चिदम्बरमिदं स्थानं रहस्यं नुमः ॥ ११५॥ लोकातिशायिविभवं महदासेवे चिदम्बररहस्यम् । पश्चाक्षरी यदीया जीवातुः सर्वलोकशुभदात्री ॥ ११६॥ शक्तीः समग्राः ग्रसते दिनान्ते यस्मिंश्च गौर्या वलते कपदीम् । यस्मात्प्रगे विश्वमुपैति शक्तिं चकास्ति तच्चेतसि मे चकास्तु ॥ ११३. श्रीचन्द्रमौलीश्वरः चन्द्रमौलीश्वरं लिङ्गं चन्द्रामृतघनं सितम् । सूर्येन्द्वग्निरुचिं सूक्ष्म गोमुखे स्थापितं भजे ॥ ११८॥ ११४. श्रीरत्नसभापतिः इन्द्रनीलसमानकान्तिसमेधितात्मतनुप्रभं इन्द्रनीलमणिप्रकाण्डमयात्मदेहविभाकरम् । इन्द्रमुख्यदिवौकसादिसमर्चितं श्रुतिमार्गितं इन्द्रनीलमहार्घरत्नसभापतिं शिवमाश्रये ॥ ११९॥ ११५. श्रीमुखलिङ्गं अभूतपूर्वं प्रथते जगत्यां यल्लिङ्गमासादितदिव्यवक्त्रम् । ततः प्रसिद्धं मुखलिङ्गनाम्ना तल्लिङ्गमीशस्य सदा स्मरामि । ११६. श्रीशिवपादुका सकलमनुजरक्षादीक्षितं वेदरीत्या त्रिषवणमतिभक्त्या दीक्षितैरर्च्यमानम् । हरिविधिसनकाद्यैः नित्यनिध्यायमानं शयनगृहयियासुं पादयुग्यं प्रपद्ये ॥ १२१॥ ११७. श्रीअस्त्रराजः विनाऽस्रराजं न शिवस्य यात्रा विनाऽस्रराजं न च मज्जनादि । विनाऽस्रराजं न महो भवस्य तमस्रराजं प्रणमामि मूर्ध्ना ॥ १२२॥ ११८. श्री स्वर्णकालभैरवः दक्षे डमरुकं शूलं वामे पाशं कपालकम् । हस्ते धरन्तं च शुना सहितं सुमनोहरम् ॥ १२३॥ स्वपादन्यस्तताम्रं च स्वर्णं कृत्वा ददौ पुरा । भक्तेभ्य इति तं स्वर्णकालभैरवमाश्रये ॥ १२४॥ स्वर्णकालभैरवं त्रिशूलयुक्तपाणिनं वेदरूपसारमेयसंयुतं महेश्वरम् । समाश्रितेषु सर्वदा समस्तवस्तुदायिनं मखीन्द्रवंशपूर्वपुण्यरूपिणं समाश्रये ॥ १२५॥ ११९. श्रीबलीश्वरः श्रीबलीश्वरमीशानं फलदातारमव्ययम् । उमया सहितं चन्द्रशेखरं समुपास्महे ॥ १२६॥ १२०. श्रीब्रह्मा पञ्चाननो यः पुरतः प्रकृत्या परं निकृत्तस्वशिराःशिवेन । स्वनिःश्रुतीनां वदनानि यस्य ब्रह्माणमम्भोजभवं नमामि ॥ १२७॥ १२१. श्रीचण्डिकेशः चण्डीश्वरस्स्थाणुसमानतेजा रुद्रेण निक्षिप्तसमस्तभारः । यस्य प्रसादात्सफला शिवार्चा तं चण्डिकेशं प्रणमामि चान्ते ॥ १२८॥ १२२. श्री चिन्तामणिविनायकः तं मन्महे महेशानं महेशानप्रियार्भकम् । चिन्तामणिगणेशानं गजाननमनामयम् ॥ १२९॥ १२३. श्री वल्लीशः एकाननं चन्दनलेपिताङ्गं महाद्भुतं दिव्यमयूरवाहनम् । रुद्रस्य सूनुं सुरनाथपुत्रीपतिं च वल्लीशमुपास्महेऽनिशम् ॥ १३०॥ १२४. श्री त्यागराजः त्यागराजं महेशानं कमलालयवासिनम् । नमामि परया भक्त्या मुचुकुन्दवरप्रदम् ॥ १३१॥ महाबलिमुखास्सर्वे शिवाज्ञापरिपालकाः । मया निवर्तितास्सन्तो गच्छन्तु शिवसन्निधिम् ॥ १३२॥ यश्शिवो नामरूपाभ्यां या देवी सर्वमङ्गला । तयोस्संस्मरणान्नित्यं सर्वतो जयमङ्गलम् ॥ १३३॥ इति श्रीचिदम्बरेश्वर श्रीनटराज देवालयस्थ देवतास्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Chidambareshvara Shrinataraja Devalayastha Devata Stotram
% File name             : chidambareshvarashrInaTarAjadevAlayasthadevatAstotraM.itx
% itxtitle              : chidambareshvarashrInaTarAjadevAlayasthadevatAstotram
% engtitle              : chidambareshvarashrInaTarAjadevAlayasthadevatAstotraM
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org