श्रीचिदम्बरेश्वरस्तोत्रम्
ॐ कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतीवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि ॥ १॥
वाचामतीतं फणिभूषणाङ्गं गणेशतातं धनदस्य मित्रम् ।
कन्दर्पनाशं कमलोत्पलाक्षं चिदम्बरेशं हृदि भावयामि ॥ २॥
रमेशवन्द्यं रजताद्रिनाथं श्रीवामदेवं भवदुःखनाशम् ।
रक्षाकरं राक्षसपीडितानां चिदम्बरेशं हृदि भावयामि ॥ ३॥
देवादिदेवं जगदेकनाथं देवेशवन्द्यं शशिखण्डचूडम् ।
गौरीसमेतं कृतविघ्नदक्षं चिदम्बरेशं हृदि भावयामि ॥ ४॥
वेदान्तवेद्यं सुरवैरिविघ्नं शुभप्रदं भक्तिमदन्तराणाम् ।
कालान्तकं श्रीकरुणाकटाक्षं चिदम्बरेशं हृदि भावयामि ॥ ५॥
हेमाद्रिचापं त्रिगुणात्मभावं गुहात्मजं व्याघ्रपुरीशमाद्यम् ।
श्मशानवासं वृषवाहनस्थं चिदम्बरेशं हृदि भावयामि ॥ ६॥
आद्यन्तशून्यं त्रिपुरारिमीशं नन्दीशमुख्यस्तुतवैभवाढ्यम् ।
समस्तदेवैः परिपूजिताङ्घ्रिं चिदम्बरेशं हृदि भावयामि ॥ ७॥
तमेव भान्तं ह्यनुभातिसर्वमनेकरूपं परमार्थमेकम् । ह्यनुभूतिसर्वम्
पिनाकपाणिं भवनाशहेतुं चिदम्बरेशं हृदि भावयामि ॥ ८॥
विश्वेश्वरं नित्यमनन्तमाद्यं त्रिलोचनं चन्द्रकलावतंसम् ।
पतिं पशूनां हृदि सन्निविष्टं चिदम्बरेशं हृदि भावयामि ॥ ९॥
विश्वाधिकं विष्णुमुखैरुपास्यं त्रिलोचनं पञ्चमुखं प्रसन्नम् ।
उमापतिं पापहरं प्रशान्तं चिदम्बरेशं हृदि भावयामि ॥ १०॥
कर्पूरगात्रं कमनीयनेत्रं कंसारिमित्रं कमलेन्दुवक्त्रम् ।
कन्दर्पगात्रं कमलेशमित्रं चिदम्बरेशं हृदि भावयामि ॥ ११॥
विशालनेत्रं परिपूर्णगात्रं गौरीकलत्रं हरिदम्बरेशम् ।
कुबेरमित्रं जगतः पवित्रं चिदम्बरेशं हृदि भावयामि ॥ १२॥
कल्याणमूर्तिं कनकाद्रिचापं कान्तासमाक्रान्तनिजर्धदेहम् ।
कपर्दिनं कामरिपुं पुरारिं चिदम्बरेशं हृदि भावयामि ॥ १३॥
कल्पान्तकालाहितचण्डनृत्तं समस्तवेदान्तवचोनिगूढम् ।
अयुग्मनेत्रं गिरिजासहायं चिदम्बरेशं हृदि भावयामि ॥ १४॥
दिगम्बरं शङ्खसिताल्पहासं कपालिनं शूलिनमप्रयेम् ।
नागात्मजावक्त्रपयोजसूर्यं चिदम्बरेशं हृदि भावयामि ॥ १५॥
सदाशिवं सत्पुरुषैरनेकैः सदार्चितं सामशिरस्सुगीतम् ।
वैय्याघ्रचर्माम्बरमुग्रमीशं चिदम्बरेशं हृदि भावयामि ॥ १६॥
चिदम्बरस्य स्त्वनं पठेद्यः प्रदोषकालेषु पुमान् स धन्यः ।
भोगानशेषाननुभूय भूयः सायुज्यमप्येति चिदम्बरस्य ॥ १७॥
इति श्रीचिदम्बरेश्वरस्तोत्रं सम्पूर्णम् ।
NA