चित्रकेतुकृता शिवप्रार्थना
भक्ति प्रदानसमयोऽयमुमासहाय
त्वत्पादपद्मभजनेन निरन्तरायम् ।
त्वय्येव भक्तिरखिलाघविनाशनाय
देहि प्रसीद भगवन् शरणागताय ॥ ११०॥
त्वत्पादपद्ममकरन्दरसाभिषिक्तं
मच्चित्तभृङ्गमसकृत् कुरु शर्व शम्भो ।
मत्प्रार्थनीयमिह नान्यदुमासहाय
धन्योऽस्मि तेन धनिकोऽस्मि जगत्त्रयेऽपि ॥ १११॥
यद्यन्ममाभिलषितं तदुमासहाय सिद्धं
त्वदङ्घ्रिकमलार्चनभक्तिलेशात् ।
अन्यन्न वाञ्छितमपीश किमस्ति लोके
त्वद्भक्तिदुर्लभमिति प्रतिभाति नित्यम् ॥ ११२॥
आकाङ्क्षा शिवनाममात्रभजने भस्मत्रिपुण्ड्रे तथा
रुद्राक्षाभरणेऽपि शङ्गविलसल्लिङ्गार्चनेऽपि प्रभो ।
लिङ्गाराधनसाधनेष्वपि मुहुर्लिङ्गप्रणामेऽपि मे
लिङ्गालोकनलोलमेव सततं चित्तं ममास्तु प्रभो ॥ ११३॥
मन्नेत्राम्बुजकृत्यमस्तु सततं बिल्वादिकाभ्यर्चिता-
पारानङ्गविहारभङ्गविलसल्लिङ्गार्चनालोकनम् ।
तेनैतञ्जननं च धन्यमिति मे बुद्धिः प्रवृद्धा मुहुः
भूयादित्यनुवासरं भवतु मे सम्प्रार्थनीयं प्रभो ॥ ११४॥
श्रोत्रस्यापि न कृत्यमन्यदधुना विश्वेशपूजाकथा-
पीयूषार्णवपानमेव मुहुरप्यत्यादरेणान्वहम् ।
तत्कृत्यं तदपारपुण्यजलधौ प्राप्यं तदेवान्तकं
दूरीकर्तुमलं तदेवमसकृत् सर्वार्थसिद्धिप्रदम् ॥ ११५॥
कृत्यं मत्करयोर्महेश्वर महालिङ्गालयप्रोक्षणं
लिङ्गाभ्यङ्गविलेपनं च विलसत्पञ्चामृतासेचनम् ।
उत्फुल्लामलकुन्दपङ्कजलसद्बिल्वीदलाभ्यर्चनं
कर्पूरागरुसारकर्दमलसत्पाटीरसारार्पणम् ॥ ११६॥
क्षीरान्नार्पणधूपदीपविलसन्नीराजनाद्यर्पणं
रत्नच्छत्रसमर्पणं च विपुलश्रीचामराद्यर्पणम् ।
यच्चामीकरदर्पणार्पणमपि प्रायः प्रणामार्पणं
कृत्यं मत्करयोर्भवत्वनुदिनं गौरीविहारादर ॥ ११७॥
जिह्वाकृत्यमुमासहायचरणाम्भोजार्चनाराधन-
ध्यानानुस्मरणप्रभावकथनं तन्नामसङ्कीर्तनम् ।
तद्गौरीरमणोपहारसुरसव्याख्यानमप्यादरात्
तत्पूजाकरणानुवादनमपि श्रीनीलकण्ठ ध्रुवम् ॥ ११८॥
नासाकृत्यमुमासहायचरणाम्भोजार्चितात्युल्लस-
द्बिल्वीपल्लवफुल्लनीलकमलामोदग्रहस्तत्करः ।
उग्रानुग्रहतः समग्रत इति ज्ञेयो महानुग्रहो
हाराहारसुगन्धसुन्दरमिदं नासापुटं धूर्जटे ॥ ११९॥
प्रणामव्याजेन स्मरहर भवत्पादरजसः
शिरोमल्लक्रीडां सकृदपि करोतु प्रणयतः ।
शिरःकृत्यं तावद्भवति खलु तेनैव तरसा न
सा किं मोक्षश्रीरमणमपि मामेव कुरुते ॥ १२०॥
कृत्यं न मे चरणयोरपि शङ्करान्यत्
श्रीकाशिकानगरसञ्चरणालसौ तौ ।
स्यातामतः परमुमारमणानुवारं कृत्यं
तदेव न तयोरपि किं विशिष्य ॥ १२१॥
शम्भो भालतलं विभूतिविलसद्रेखाङ्कितं सर्वदा
स्यादेतेन नवेन्दुखण्डललितं भालं भवेत् तावता ।
तत्कृत्यं च समाप्तमेवमसकृत् तत् प्रार्थनीयं त्वया
कर्तव्यं खलु पूर्णमेव भगवन् सम्पूर्णकाम प्रभो ॥ १२२॥
अर्थिप्रार्थितमर्थजातमसकृद्दातुं समर्थो भवान्
शम्भो शाम्भववत्सलातिकरुणान्येतस्य सर्वाण्यपि ।
त्वन्नामस्मरणार्चनादिनिरतान्येवादरात् सन्तु मे
तान्येवास्मदभीष्टसिद्धिफलदानीति स्मरामि ध्रुवम् ॥ १२३॥
अस्मत्सन्ततिरप्यनन्तविभवैर्भावैः प्रभूतैर्युता
लिङ्गाराधनसाधनोद्यतमतिः सा कालकालार्चनात् ।
कालाद्भीतिमपास्य मौनिनिकराशास्याशु पञ्चास्य ते
तावत्पुण्यकथाः शृणोतु सततं सम्पत्प्रवृद्धाऽपि सा ॥ १२४॥
अस्माभिः शिवलिङ्गपूजनफलं प्राप्तं श्रुतेर्यच्छ्रुतं
तन्नारायणवाक्पतिप्रभृतिभिर्मुहुः सादरम् ।
धन्योऽयं शिवपूजक स्त्रिभुवनाराध्योऽयमित्युच्यते
नित्यं मत्सदनारपि गृहव्यापारसारादरैः ॥ १२५॥
भूलोकोऽप्यधुना महेशकृपया कैलास एवाभवत्
नन्दीशप्रमुखाश्च सन्ततमुमाकान्तार्चने सादरम् ।
मन्दं मन्दरमेत्य सुन्दरतरं वीरेश्वराराधको धन्यो
धन्यतमोऽयमित्यनुदिनं मां प्रस्तुवन्तीत्यतः ॥ १२६॥
शिव शिव शिव शम्भो चन्द्रमौले कपर्दिन्
अनलविमलकालाबाललीलाविलास ।
वस वस वस वासे मन्मनस्येव लास्यं कुरु
कुरु कुरु गौरीं सन्निवेश्याङ्कभागे ॥ १२७॥
- -
उत्फुल्लं मम मानसाम्बुजवरं तत्कर्णिकायां शिवा-
मालिङ्गयान्वहमादरेण गिरिजाजाने शिवोमापते ।
पाहीति शृणु तत्कराम्बुजमहावीणां गृहीत्वा क्षणं
तन्त्रीवादनलालसः शिव शिवे कल्याणगौरीति च ॥ १२८॥
॥ इति शिवरहस्यान्तर्गते चित्रकेतुकृता शिवप्रार्थना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २२। ११०-१२८ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 22. 110-128 ..
Notes:
Citraketu चित्रकेतु (a Śaiva king शैवराज) prays to Śiva शिव to grant him utmost devotion towards Him.
Proofread by Ruma Dewan