दण्डपाणिकृता शिवस्तुतिः
दण्डपाणिरुवाच -
विश्वेश प्रमथाधीश वृषभाधीश वाहन ।
वेदवेद्य जगन्नाथ नमस्ते रुद्रमन्यवे ॥ ४४॥
कालकूटहर श्रीमन् कालकाल कृपानिधे ।
श्रीनीलकण्ठ कामारे उतोतइषवे नमः ॥ ४५॥
त्रिशूलपाणिन् सर्वात्मन् दीनबन्धो दिगम्बर ।
सर्वाधार सुराधीश नमस्ते अस्तु धन्वने ॥ ४६॥
पिनाकपाणे देवेश सर्वदेवोत्तम प्रभो ।
अनादिनिधनानन्त बाहुभ्यामुतते नमः ॥ ४७॥
निरञ्जन निराधार निरवद्य निरामय ।
निष्कलङ्क निरातङ्क नमः सोमाय ते सदा ॥ ४८॥
वेदान्त वेद्य त्रिदशैकबन्धो त्रिकाग्निकाल त्रिपुरान्तकेश ।
अनन्तकल्याणगुणार्णवाद्य रुद्राय देवाय नमोऽस्तु तुभ्यम् ॥ ४९॥
अणोरणीयान् महतोमहीयान् त्वमेव मान्यो जगदेकहेतो ।
विश्वाधिकासास्य परात्परेश ताम्राय देवाय नमो नमस्ते ॥ ५०॥
त्वत्तो जगज्जन्म भवत्यनन्त त्वत्तो जगद्रक्षणमिन्दुमौले ।
त्वय्येव नाशं समुपैति लोकः शङ्गाय देवाय नमो नमस्ते ॥ ५१॥
त्वमेव यज्ञादि फलप्रदाता त्वमेव शैवोत्तम धर्मगोप्ता ।
त्वमेव नानाविध सृष्टिकर्ता उग्राय देवाय नमो नमस्ते ॥ ५२॥
त्वत्तो न किञ्चित् (कश्चित्) परमस्त्रिलोके त्वामेव वेदोत्तममामनन्ति ।
त्वामेव शान्तं शरणं प्रपद्ये भीमाय देवाय नमो नमस्ते ॥ ५३॥
त्वमेव मौनीन्द्रमनस्सरोजधर्मं प्रविष्टः शिपिविष्ट शम्भो ।
त्वमेव पूर्णः पुरुषः पुराणो मयोभवाय प्रणतोऽस्मि नित्यम् ॥ ५४॥
त्वामनन्तमनाद्यन्तमामनन्ति महर्षयः ।
त्वमेव कर्मफलः शङ्कराय नमोऽस्तु ते ॥ ५५॥
त्वमेव भक्तमन्दारो वृन्दारक वरप्रदः ।
त्वमेवाभीष्टदो नित्यं महादेवाय ते नमः ॥ ५६॥
त्वामेवानन्तमीशानं त्वामेव जगदीश्वरम् ।
वदन्ति निगमाः सर्वे महेशातो नतोऽस्म्यहम् ॥ ५७॥
यादृशं त्वं (यादृशस्त्वं) महादेव न जाने तत्त्वतः शिव ।
वेदैरपि न ते रूपं ज्ञान(त)मीशानतोऽस्मि ते ॥ ५८॥
त्वदन्यं न भजामीश त्वदन्यन्नशृणोम्ययम् ।
त्वदन्यं न स्मरामीश त्वदन्यं न भजाम्यहम् ॥ ५९॥
न शिवान्यं पूजयामि शिवान्यःपूज्य एव न ।
न शिवान्यं पूजयामि शिवान्यश्चिन्त्य एव न ॥ ६०॥
कर्मणा मनसा वाचा त्वामेव शरणं गतः ।
भृत्यत्वेन महादेव मामङ्गीकुरु शङ्कर ॥ ६१॥
पूतोऽस्मि पुण्यदेहोऽस्मि धन्योऽस्मि परमेश्वर ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६२॥
तपः फलितमद्यैव पुराकृतमहर्निशम् ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६३॥
सा लिङ्गपूजा फलिता या कृता पूर्वमादरात् ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६४॥
धन्या ममाभवन्माता पिता धन्योऽभवन्मम ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६५॥
धन्या मद्वंशजाः सर्वे धन्यं मत्कुलमुत्तमम् ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६६॥
जप्तः पञ्चाक्षरः शुद्धः फलितः श्रुतिसम्मतः ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६७॥
पूर्वार्जतानि पुण्यानि फलितानि सदाशिव ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६८॥
तत्तत्कालकृताः सर्वे धर्माश्च फलिताः शुभाः ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६९॥
प्रायशो वह्नयः प्रीता यथाकालं हुता मया ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ७०॥
ऋषयः पितरः साध्याः प्रीताः प्रायोऽधुना विभो ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ७१॥
नान्तोऽस्ति मम भाग्यस्य भाग्यमीदृङ् न कस्यचित् ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ७२॥
भाग्यस्य परिपाकोऽयं जात एव हितार्थदः ।
यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ७३॥
॥ इति शिवरहस्यान्तर्गते दण्डपाणिकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ८ । ४४-७३॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 8 . 44-73..
Notes:
Daṇḍapāṇi दण्डपाणि (a Yakṣa यक्ष named Harikeṣa हरिकेश), worships Śiva शिव with intense devotion and eulogizes Him.
Proofread by Ruma Dewan