दभ्रगृहे भैरवदर्शनवर्णनम्
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
तदा तद्भक्तिजिज्ञासुरीश्वरस्तद्गृहं गतः ।
बभार भैरवं वेषं भीरूणां भयवर्धनम् ॥ २९॥
तदा तस्य जटाजूटे बभ्रुभिश्चालकोच्चयैः ।
रेजुस्तन्न्यस्तपुष्पाणि तिमिरे तारका इव ॥ ३०॥
तृतीयं नयनं तस्य भालपुण्ड्रान्तरे स्थितम् ।
सन्ध्यारक्तारुणे तदङ्गे तद्व्योम्नीव तिमिरं घनम् ॥ ३१॥
कालकण्ठं व्यालमालं दीप्तशूलवरायुधम् ।
सन्ध्यारक्तारुणे नेत्रे विवृतापाङ्गके तदा ॥ ३२॥
विवृत्तदंष्ट्राघोणं च ज्वलज्ज्वालायुताननम् ।
सितभस्माङ्गरागं च सर्वाङ्गसितपुण्ड्रकम् ॥ ३३॥
चतुर्भुजं भुजङ्गोरु कङ्कणं किङ्किणीकटिम् ।
वराटिकालसन्मालामेदुरोत्तुङ्गवक्षसम् ॥ ३४॥
पादुकाविलसत्पादं मत्तमातङ्गगामिनम् ।
त्रियामारमणोत्तुङ्गशेखरावलिताङ्गकम् ॥ ३५॥
अस्थिहारलसत्कण्ठं भ्राजत्स्फटिककुण्डलम् ।
कञ्चुलीकञ्चुकं बिभ्रत्कपालकलिताशयम् ॥ ३६॥
दक्षशिक्षितहस्तस्थडमरूद्दामघोषवान् ।
मञ्जुशिञ्जितमञ्जीर परिशोभिपदाम्बुजः ॥ ३७॥
दिव्योपनिषदस्तस्य पादनूपुरतां ययुः ।
तद्ध्वनिः पादलग्नानां तासां स्तुतिरिवाबभौ ॥ ३८॥
एवं तद्दभ्रभक्तस्य द्वारमागत्य भैरवः ।
॥ इति शिवरहस्यान्तर्गते दभ्रगृहे भैरवदर्शनवर्णनम् सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ५५ । २९-३८.१॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 55 . 29-38.1..
Notes:
Bhairava भैरव appears at the gates of DabhraBhakta दभ्रभक्त.
Proofread by Ruma Dewan