दक्षादिकृता शिवस्तुतिः
(शिवरहस्यान्तर्गते ईशाख्ये)
दक्षः उवाच ।
पशुपाशहृते नमो नमस्ते
शरणं चरणाम्बुजं प्रपद्ये ।
पशुपतये करवाणि वाचमिष्टां
शरणं यामि शरण्यमिन्दुमौलिम् ॥ ६१॥
देवा ऊचुः ।
चण्डांशुचन्द्रनयनोद्धतबाहुदण्ड-
संलग्नपाशवरयुक्त द्विजार्तिखण्ड ।
वेतण्डवक्त्रकलितेक्षण तुण्डगण्ड-
सत्कुण्डलीशवरकुण्डलमण्डितास्य ॥ ६३॥
विवशाः पशवो वयं महेश
भवतान्ताः किल कामपाशबद्धाः ।
पशुपाशविमोचकोऽसि शम्भो
पशुपस्त्वं परिमोचयाशु नः कुपाशात् ॥ ६४॥
इन्द्र उवाच ।
शरणं किल यामि सामिसोम-
प्रमथोत्तंसकिरीटकोटिजूटम् ।
करटित्वक्पटशोभिसत्कटिं त्वं
भज चेतस्तटनीजटं महेशम् ॥ ७०॥
विष्णुरुवाच ।
परिपाहि विभो महेश शम्भो-
ऽमरवृन्दोत्तम पुङ्गवोरुकेतो ।
कामभगान्धकसूदनाऽन्धकारे
प्रमथाधीश सनाथपाशु मां त्वम् ॥ ७४॥
वसुधाधृग्वरहार चापपाणे
वसुधास्यन्दनसंस्थ चित्रशक्ते ।
वसुधाराधिपपूज्य देव शम्भो
वसुधाधृक्तनयाप्रियाय ते नमोऽस्तु ॥ ७५॥
क्षमस्वापराधं मदीयं महेश
विभो मायया ते निबद्धोऽस्मि दीनः ।
अहं देवमन्यं न मन्ये मदन्यं
महादेव शम्भो प्रसीद प्रसीद ॥ ७६॥
॥ इति शिवरहस्यान्तर्गते दक्षादिकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ७ महादेवप्रसादनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 7 mahAdevaprasAdanam . vAvRRittashlokAH ..
Notes:
Dakṣa दक्ष, Devā-s देवाः, Indra इन्द्र and Viṣṇu विष्णु; filled with remorse about their trespasses, apologize to and eulogize Śiva शिव; who had appeared at the devastated Dakṣādhvara दक्षाध्वर, to appease and pacify Him.
Proofread by Ruma Dewan