दक्षकृतं २ शिवस्तोत्रम्
दक्ष उवाच ।
जय शङ्कर सोमेश जय सर्वज्ञ शम्भवे ।
जय कल्याणभृच्छम्भो जय कालात्मने नमः ॥ ३०॥
आदिकर्तर्नमस्तेऽस्तु नीलकण्ठ नमोऽस्तु ते ।
ब्रह्मप्रिय नमस्तेऽस्तु ब्रह्मरूप नमोऽस्तु ते ॥ ३१॥
त्रिमूर्तये नमो देव त्रिधाम परमेश्वर ।
सर्वमूर्ते नमस्तेऽस्तु त्रैलोक्याधार कामद ॥ ३२॥
नमो वेदान्तवेद्याय नमस्ते परमात्मने ।
यज्ञरूप नमस्तेऽस्तु यज्ञधाम नमोऽस्तु ते ॥ ३३॥
यज्ञदान नमस्तेऽस्तु हव्यवाह नमोऽस्तु ते ।
यज्ञहर्त्रे नमस्तेऽस्तु फलदाय नमोऽस्तु ते ॥ ३४॥
त्राहि त्राहि जगन्नाथ शरणागतवत्सल ।
भक्तानामप्यभक्तानां त्वमेव शरणं प्रभो ॥ ३५॥
इति ब्रह्मपुराणे नवाधिकशततमाध्यायान्तर्गतं
दक्षकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय १०९/३०-३५॥
brahmapurANa . adhyAya 109/30-35..
Proofread by PSA Easwaran