दक्षकृतं ३ शिवस्तोत्रम्
दक्ष उवाच ।
जय देव जगन्नाथ लोकानुग्रहकारक ॥ १, २३.३९॥
कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ १, २३.३९॥
कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥ १, २३.४०॥
मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ १, २३.४०॥
त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ १, २३.४१॥
न हि त्वदधिकाः केचिदीशास्तेऽच्युतकादयः ॥ १, २३॥
इति शिवपुराणे वायवीयसंहितायां पूर्वखण्डे त्रयोविंशाध्यायान्तर्गतं
दक्षकृतं शिवस्तोत्रं समाप्तम् ।
शिवपुराण । वायवीयसंहिता । पूर्वभाग । अध्याय २३/३९-४१॥
shivapurANa . vAyavIyasaMhitA . pUrvabhAga . adhyAya 23/39-41..
Proofread by PSA Easwaran