दक्षकृतं ४ शिवस्तोत्रम्
दक्ष उवाच ।
नमामि देवं वरदं वरेण्यं नमामि देवेश्वरं सनातनम् ।
नमामि देवाधिपमीश्वरं हरं नमामि शम्भुं जगदेकबन्धुम् ॥ ३६॥
नमामि विश्वेश्वरविश्वरूपं सनातनं ब्रह्म निजात्मरूपम् ।
नमामि सर्वं निजभावभावं वरं वरेण्यं सततं नतोऽस्मि ॥ ३७॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, केदारखण्डे, पञ्चमाध्यायान्तर्गतं
दक्षकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । केदारखण्ड । अध्याय ५/३६-३७॥
skandapurANa . mAheshvarakhaNDa . kedArakhaNDa . adhyAya 5/36-37..
Proofread by PSA Easwaran