दक्षकृतं शिवापराधक्षमास्तोत्रम्
नमस्यामि देव त्वदीयाङ्घ्रियुग्मगं
यदाधाय चित्ते त्यजे मृत्युभीतिम् ।
भवव्याधिशान्त्यै भवन्नामभिन्नं
न भैषज्यमास्ते श्रुतिस्तत्प्रमाणम् ॥ १॥
प्रभो दीनबन्धो कृपापारसिन्धो
मनश्चक्षुरात्मस्वधिष्ठानकारिन् ।
मनोवृत्तिसाक्षिन्नमस्यामि तेऽङघ्री
क्षमस्वापराधं महादेव शम्भो ॥ २॥
पुरो जन्मजन्मार्जितात्कर्मणो वै
शरीरात्मकोऽसौ धुवं बन्ध एषः ।
अतो बन्धमुक्त्यै नमस्यामि तेऽङ्घ्री
क्षमस्वापराधं महादेव शम्भो ॥ ३॥
इदं यच्छरीरं वृथा मोहरूपं
ममाहं तवेत्यादिदुष्टग्रहञ्च ।
जिहासुः कदा वा नमस्यामि तेऽङ्घ्नी
क्षमस्वापराधं महादेव शम्भो ॥ ४॥
मनस्ते वचस्ते दृशौ ते करौ ते
रसञ्चापदत्वक्श्रुती ते मदीये ।
विनिश्चित्य चेदं नमस्यामि तेऽङ्घ्री
क्षमस्वापराधं महादेव शम्भो ॥ ५॥
दिगाकाशकालस्वरूपो महात्मा
न तद्वस्तु यत्र त्वमेको न भासि ।
शरीरी सदागा नमस्यामि तेऽङघ्री
क्षमस्वापराधं महादेव शम्भो ॥ ६॥
शरीरस्वभावात् सदागतःप्रबन्धो
न चेत्त्वं प्रभुः सङ्क्षमेथा महेशो ।
क्व याम्येष तस्मान्नमस्यामि तेऽङ्घ्री
क्षमस्वापराधं महादेव शम्भो ॥ ७॥
क्षमस्वापराधं न वा मे क्षमस्व
प्रभो ते गृहीते पदे पङ्कजाभे ।
मृतौ वा जनौ वा धृते जीवने वा
गतिस्त्वं गतिस्त्वं महादेव शम्भो ॥ ८॥
॥ इति बृहद्धर्मपुराणे दक्षकृतशिवापराधक्षमास्तोत्रं सम्पूर्णम् ॥
॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः ३९। ३१-३८ ॥
Encoded and proofread by Ruma Dewan