दक्षप्रति महादेवप्रसादनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
दक्ष उवाच ।
अव शिव सदयं पिनाकपाणे
हृदयं मे तव पादपद्मसद्म ।
न विमुञ्चति मुञ्चतीश शोकं
न शशाकोऽपि सदा मुदे हृदो मे ॥ ५३॥
अवते भवते नमस्क्रिया मे
भवते देवेश तत्प्रसादिने ।
हरते वृजिनाघ सङ्घमेत-
द्धर ते देव कटाक्षकोणपाते ॥ ५४॥
- -
स दक्षपरमस्तुत्या प्रीत्या युक्तो महेश्वरः ।
यज्ञस्य च शिरश्छिन्नं पुनः प्रावर्धयत्तदा ॥ ५५॥
गाणपत्यं ददौ तस्मै दक्षायाक्लिष्टकर्मणे ।
दक्षो नत्वा महादेवं यज्ञशेषं समापयत् ॥ ५६॥
ऋत्विक्पत्न्यादिसहितो दक्षिणाभिः प्रतर्प्य तान् ।
अविमुक्तं ययो दक्षः शिवनिन्दाकृदंहसः ॥ ५७॥
प्रमुच्येयमिति स्वैरं तप उग्रं समास्थितः ।
दक्षेश्वराभिधं लिङ्गं प्रतिष्ठाप्यार्चयद्धरम् ॥ ५८॥
भस्मरुद्राक्षपुण्ड्राङ्को रुद्रपञ्चाक्षरादरः ।
गङ्गाम्भसा च संसिच्य त्रिकालं बिल्वपल्लवैः ॥ ५९॥
स्तुवन्नेवं विरूपाक्षं द्वादशाब्दमुवास हि ॥ ६०॥
॥ इति शिवरहस्यान्तर्गते दक्षादिकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ७ महादेवप्रसादनम् । ५३-६० ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 7 mahAdevaprasAdanam . 53-60 ..
Notes:
Dakṣa दक्ष; filled with remorse, eulogizes Śiva शिव; who had appeared at the devastated Dakṣādhvara दक्षाध्वर, to appease and pacify Him. Blessed, and thereafter as commanded by Śiva शिव; Dakṣa दक्ष settles in Avimuktam अविमुक्तम् where he establishes the Dakṣeśvara Śivaliṅga दक्षेश्वर शिवलिङ्ग to worship Śiva शिव.
Proofread by Ruma Dewan