श्रीदक्षिणामूर्तिदशकम्
पुन्नागवारिजातप्रभृतिसुमस्रग्विभूषितग्रीवः ।
पुरगर्वमर्दनचणः पुरतो मम भवतु दक्षिणामूर्तिः ॥ १॥
पूजितपदाम्बुजातः पुरुषोत्तमदेवराजपद्मभवैः ।
पूगप्रदः कलानां पुरतो मम भवतु दक्षिणामूर्तिः ॥ २॥
हालाहलोज्ज्वलगलः शैलादिप्रवरगणैर्वीतः ।
कालाहङ्कृतिदलनः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ३॥
कैलासशैलानलयो लीलालेशेन निर्मिताजाण्डः ।
बालाब्जकृतावतंसः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ४॥
चेलाजितकुन्ददुग्धो लोलः शैलाधिराजतनयायाम् ।
फालविराजद्वह्निः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ५॥
न्यग्रोधमूलवासी न्यक्कृतचन्द्रो मुखाम्बुजातेन ।
पुण्यैकलभ्यचरणः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ६॥
मन्दार आनतततेर्वृन्दारकवृन्दवन्दितपदाब्जः ।
वन्दारुपूर्णकरुणः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ७॥
मुक्तामालाभूषस्त्यक्ताशप्रवरयोगिभिः सेव्यः ।
भक्ताखिलेष्टदायी पुरतो मम भवतु दक्षिणामूर्तिः ॥ ८॥
मुद्रामालामृतधटपुस्तकराजत्कराम्भोजः ।
मुक्तिप्रदाननिरतः पुरतो मम भवतु दक्षिणामूर्तिः ॥ ९॥
स्तोकार्चनपरितुष्टः शोकापहपादपङ्कजस्मरणः ।
लोकावनकृतदीक्षः पुरतो मम भवतु दक्षिणामूर्तिः ॥ १०॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीदक्षिणामूर्तिदशकं सम्पूर्णम् ।
Proofread by PSA Easwaran