श्रीदक्षिणामूर्तिना वसिष्ठादिभ्यो ज्ञानोपदेशवर्णनम्
(शिवगौरीसंवादे)
---
मुनयः -
कटीतटपरीलसत्करटिकृत्तिकाद्यं शिवं
तडिन्निभजटाकुटीविधृतसामकोटिप्रभम् ।
सुरोरुतटिनीशिखं वटतरीरधस्तात्स्थितं
सुरासुरगणाननोज्वलकिरीटकोटिप्रभा-
विराजितपदाम्बुजं निटिललोलनेत्रं नुमः ॥ ४३॥
काशिकोशगतकाशविहीन काशिकापुरनिवासकाशय ।
काशपूज्यपद व्योमकेश नो ज्ञानकोशमखिलं भवमुक्त्यै ॥ ४४॥
---
ईश्वरः -
मुनीनां वदनाद्देवि प्रश्नयाणां तदा मयि ।
तुष्टः कष्टविनाशाय तद्ज्ञानं संवदाम्यहम् ॥ ४५॥
ईश्वरः - (श्रीदक्षिणामूर्तिः -)
श्रृण्वन्तु वामदेवाद्या मुनयो मत्प्रसादतः ।
भवतां ज्ञानममलं भविष्यति न संशयः ॥ ४६॥
नातप्ततपसे देयमिति श्रुत्यनुशासनम् ।
भवन्तस्तप्ततपसः सर्वे मत्पदपूजकाः ॥ ४७॥
दास्यामि मत्परं ज्ञानं प्रणिपातपुरःसरम् ।
एतदर्थं पुरा देवैः पृष्टोऽहं मुनिसत्तमाः ॥ ४८॥
तानब्रवं सुरगणाः तच्छृण्वन्तु सुरर्षयः ।
अहमेकोऽद्वितीयश्च व्यापकोऽलिङ्ग एव हि ॥ ४९॥
मत्तो नान्यज्जगत्किञ्चित्पृथगस्ति मुनीश्वराः ।
ब्रह्मैवेदमिदं सर्वमात्मैवेदं न संशयः ॥ ५०॥
नेह नानास्ति दृश्यं यत्सर्वं मय्येव कल्पितम् ।
यथोर्णनाभिः सृजते ग्रसते तन्तुजालकम् ॥ ५१॥
तद्वज्जगन्ति जातानि ग्रसामि विसृजामि च ।
मय्येवेदं स्थितं विश्वं मय्येव लयमेष्यति ॥ ५२॥
नित्योऽहं निर्विकल्पोऽहमशरीरोऽहमेव हि ।
आकाशात्मा व्यापकोऽहं न हि तद्धर्मभागहम् ॥ ५३॥
यतो भूतानि जातानि येन जीवन्ति तान्यपि ।
यस्मिन्लीनानि विप्रेन्द्राः तद्ब्रह्माहं न संशयः ॥ ५४॥
अपाणिपादो जवनो ग्रहीता पश्याम्यचक्षुः स श्रृणोम्यकर्णः ।
अहं विजानामि जगद्गत द्विजा न मामहो वेत्ति च मायया वृतः ॥ ५५॥
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।
नैवास्ति बन्धो न ममास्ति मुक्तिरच्छो निरच्छोऽस्मि मनोविवर्जितः ॥ ५६॥
अगाधमस्पर्शनरूपभूतं तथाऽरसं नित्यमसङ्गमीशम् ।
भूतेन्द्रियाणामतिरिक्तमीश्वरं कोशादिहीनं तमसः परस्तात् ॥ ५७॥
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं मनसा (रजसा) ततम् ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धविवर्जितः ॥ ५८॥
सत्यज्ञानानन्दमय अहमेव मुनीश्वराः ।
मां यो वेद स वै वेद सर्वमित्याह वै श्रुतिः ॥ ५९॥
ईशावास्यमिदं सर्वं यत्किञ्चिज्जगतीगतम् ।
देशकालाद्यवच्छिन्नं मां ज्ञात्वा मृत्युवर्जितः ॥ ६०॥
अद्वितीयोऽहमीशानः एक एवाहमीश्वरः ।
ज्ञात्वा मां न बिभेत्येव न द्वैतं तत्र विद्यते ॥ ६१॥
द्वैते भयं हि भवति ईषद्वा दुःखमश्नुते ।
सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ॥ ६२॥
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ।
प्राक्प्रतीची उदीच्योऽहं दक्षिणा विदिशस्तथा ॥ ६३॥
अधश्चोर्ध्वं च यत्किञ्चिद्भूतं भाव्यहमेव हि ।
पूर्णं पूर्णमदः पूर्णं सम्पूर्णोऽस्मि निरामयः ॥ ६४॥
अशरीरः शरीरेषु प्राणापानौ मनोमनः ।
देहेन्द्रियाण्यथ प्राणा मनसा मुनयो ह्यहम् ॥ ६५॥
कूर्मोऽङ्गानीव सर्वत्र सृजामि विसृजामि च ।
विनश्यत्स्वविनश्यन्तं मां यो वेद स वेदवित् ॥ ६६॥
दिक्ष्वहीनं हि मां ज्ञात्वा शोकं तरति सत्तमाः ।
को मोहस्तस्य कः शोकः छिन्नग्रन्थिः स एव हि ॥ ६७॥
मामात्मानं प्रियं ज्ञात्वा आनन्दं न बिभेति च ।
मय्येव च जगज्जातं मय्येव स्थितमेव हि ॥ ६८॥
मय्येवान्ते समभ्येति तत्तद्धर्मोपलेपितः ।
वाचो मत्तो निवर्तन्ते मनसा मुनिसत्तमाः ॥ ६९॥
मां ब्रह्मविद्ब्रह्मैव भविष्यति न संशयः ।
मयि ज्ञातेऽखिलं ज्ञातं पुच्छं पुरुष एव हि ॥ ७०॥
काष्ठा गतिः परा चाहं मुक्तोहं मोचकोऽस्म्यहम् ।
स्वाविद्यया संसरामि विद्यया मोचकोस्म्यहम् ॥ ७१॥
अजिघत्सोऽपिपासोऽहं देहप्राणमनोऽतिगः ।
अशीर्योहं सदाऽदाह्य असङ्ग पुरुषस्त्वहम् ॥ ७२॥
मद्रसं परमं ज्ञात्वा नन्दितो भवति द्विजाः ।
नैव जीवो न च ज्ञानं स्वे महिम्न्यहमास्थितः ॥ ७३॥
पुरुषस्त्वौपनिषदो ज्ञातुं शक्यो न कर्मणा ।
भीत्याऽनलानिलेन्द्राद्या भान्ति वान्ति सृजन्ति च ॥ ७४॥
सत्यकामोऽस्म्यसङ्कल्पः षडूर्मिरहितस्त्वहम् ।
न जायते वा म्रियते नायं जातो जनिष्यति ॥ ७५॥
प्रातिभासिकमेवेदं जगद्व्येतन्मुनीश्वराः ।
तद्धर्भैर्नैव लिप्तश्च न बन्धो मोक्ष एव हि ॥ ७६॥
नैव जातं जगत्किञ्चिन्नास्यान्तः परमार्थतः ।
मृगतृष्णानिभं विप्राः स्वाज्ञानपरिकल्पितम् ॥ ७७॥
मृगाणां मृगतृष्णाब्धौ यथा सत्यत्वकल्पना ।
तद्वद्देहाभिमानेन जगत्सत्यत्वकल्पना ॥ ७८॥
नराणां ज्ञानिनां विप्रा मृगतृष्णेति तद्विदाम् ।
कथं पिपासा भवति अज्ञानां तद्वदेव हि ॥ ७९॥
स्वमात्मानं परं दृष्ट्वा देहादिरहितं शिवम् ।
सद्य एव विलीयत स्वाज्ञानोत्थजगद्गणः ॥ ८०॥
अहं भूमाऽखिलानन्दो रसोऽहं शाश्वतः प्रभुः ।
विभुर्देहेन्द्रियाख्यां वै गमितो मूढकल्पनात् ॥ ८१॥
एकोऽहमेव भूतात्मा भूते भूते व्यवस्थितः ।
देहोदयविनाशेषु अविनाश्यहमेव हि ॥ ८२॥
यथान्धकारे पुरुषं संवृतं नीलवाससा ।
न जानन्ति यथान्ये वै स्वात्मानं जानते स्वयम् ॥ ८३॥
तथा सर्वेन्द्रियाणां हि प्रतिष्ठाऽहं गतागतौ ।
पुरुषः षोडशात्माहं विविधेन्द्रियकल्पकः ॥ ८४॥
चक्षुः श्रोता तथा द्रष्टा मन्ता बोद्धाऽहमेव हि । (वक्ता श्रोता)
एव ब्रह्मैव सर्वं हि नान्यथा श्रुतिराह हि ॥ ८५॥
अयमात्मा तथा ब्रह्मन्ब्रह्मैवाहं तथा द्विजाः ।
तत्त्वमस्यादिवाक्यानि अहं ब्रह्मास्मि निश्चयः ॥ ८६॥
(तत्त्वमस्यादिवाक्यानि बोधार्थं ज्ञानिनां तथा)
अभोक्तारमकर्तारमसङ्गमविनाशकम् ।
जीवश्चात्मेति तद्वित्त्वतत्त्ववाक्यार्थकल्पना ॥ ८७॥
(जीवश्चात्मेति हित्वैषा न श्रुतिर्वदति स्वयं)
अज्ञानामैक्यविज्ञानज्ञानार्थं मुनिसत्तमाः ।
द्वासुपर्णादिवाक्यानां कल्पितद्वैतकल्पने ॥ ८८॥
तत्त्वमस्यादिवाक्यानां बोधनात्सर्वभेव हि ।
असत्ये सत्यमारोप्य मूढानां बोधदायिनी ॥ ८९॥
अर्थवादोपासनाभिः कर्मभिः श्रुतिराह हि ।
शाखाचन्द्रगवार्ताभिः कल्पयिष्यन्ति सत्तमाः ॥ ९०॥
करोति तारतम्येन स्वाधिकारानुरूपतः ।
रत्नकान्तिर्यथा रत्ने दृश्यते चलितेव सा ॥ ९१॥
आत्मानन्यतया भाति तथा मयि जगद्गतम् ।
नेत्रमालिन्यतो भाति चन्द्रे द्वित्वं जले रविः ॥ ९२॥
अभ्रैर्गच्छदिवाभाति स्वे महिम्न्यहमास्थितः ॥ ९३॥
---
ईश्वरः -
एतदेव परं ज्ञानं नानाश्रुतिशिरोगतम् ।
अहं ब्रह्मेति विज्ञानान्मुच्यते नान्यथा द्विजाः ॥ ९४॥
ज्ञाने चास्तमिते विप्राः वेदनादिविवर्जितः ।
अहमेवास्मि तद्ब्रह्म वाचारम्भणमित्यपि ॥ ९५॥
नैव वाचा न मनमा शक्योऽहं ज्ञातुमेव हि ।
तमेकं जानथात्मानं नान्यः पन्थाऽयनाय हि ॥ ९६॥
ज्ञानेनैव परा मुक्तिर्भवत्येव न चान्यथा ।
अहं ब्रह्मेति विज्ञानं तद्द्विजाः परमार्थतः ॥ ९७॥
शब्दज्ञानमहो विप्राः न मुक्त्यै भवति ध्रुवम् ।
श्रवणायापि नो विप्रा न लभ्यः (?) परमेश्वरः ॥ ९८॥
शृण्वन्तोऽपि महादेवं न विद्युर्यं पिनाकिनम् ।
भक्त्या ह्यनन्यया लभ्यो दुर्लभोऽयं मुनीश्वरः ॥ ९९॥
भावग्राह्यमनीशारूपमित्याह श्रुतिरादरात् ।
सर्वमन्यत्परित्यज्य ध्येयोऽहं परमेश्वरः ॥ १००॥
चतुर्थोऽहं सदा विप्राः तुरीयः शिव एव हि ।
अहमात्मा मुनिभेष्ठाः सत्यं सत्यं न संशयः ॥ १०१॥
ब्रह्मणश्चापि विष्णोश्च तथान्येषां दिवौकमाम् ।
जनिताहं महादेवः परमात्मा श्रुतिश्रुतः ॥ १०२॥
न कर्मणा न प्रजया न धनेनेज्यया द्विजाः ।
नान्यः पन्था द्विजश्रेष्ठाः मज्ज्ञानं परमार्थतः ॥ १०३॥
यस्यैव वृणुते स्वात्मा तेन लम्यमिदं द्विजाः ।
यदाकाशं चर्मवेष्टं वेष्टयेयुर्जना द्विजाः ॥ १०४॥
तदा शिवमविज्ञाय दुःखभ्यान्तो भविष्यति ।
इन्द्राग्निमित्रं वरुणं विष्णुं ब्रह्माणमेव च ॥ १०५॥
एकमेव महादेव बहुधा कल्पयन्ति हि ।
मामविज्ञाय विप्रेन्द्राः किमृचा स करिष्यति ॥ १०६॥
यो मां वेद स वै मुक्तिममी लोकाः समासते ।
कि वोऽद्य बहुनोक्तेन श्रद्दध्वं मुनिसत्तमाः ॥ १०७॥
साधनान्यधुना वक्ष्ये ज्ञानोत्पत्यर्थमेव हि ।
ज्ञाने चाप्यर्थविज्ञानदाढर्यार्थ मुनिसतमाः ॥ १०८॥
भस्मनोधूलनं पुण्यं त्रिपुण्ड्रस्य च धारणम् ।
व्रतमेतत्पाशुपतमामनन्ति मुनीश्वराः ॥ १०९॥
शिरोव्रतमिदं पुण्यं ज्ञानसाधनमेव हि ।
रुद्राक्षधारणं पुण्यं रुद्राध्यायानुवर्तनम् ॥ ११०॥
रुद्रलिङ्गार्चनं भक्त्या बिल्वपत्रादिसाधनैः ।
पञ्चाक्षरजपश्चैव मन्नैवेद्यैकभोजनम् ॥ १११॥ (भक्तानामन्नभोजनम्)
शिवक्षेत्रनिवासश्च नित्यानित्यार्थचिन्तनम् ।
शिव शम्भो महेशेति अनिशं शिवचिन्तनम् ॥ ११२॥
मैत्री भूतेषु करुणा शान्तिदान्त्यादयो गुणाः ।
यमश्च नियमश्चैव जिष्ठामायादिवर्जनम् ॥ ११३॥
वेदवेदान्तवाक्यानां विचारो गुरुवाक्यतः ।
लोकानुदर्शनं चैव वैराग्यार्थं मुनीश्वराः ॥ ११४॥
दुःखितानां नराणां च विनष्टानां मुनीश्वराः ।
सर्व जुहोति विज्ञानं नेति नेत्यादिवाक्यतः ॥ ११५॥
गुरौ शिवेऽविनाभावो मन्मृर्तौ चिन्तनं तथा ।
उमासहायं देवेशं नीलकण्ठं प्रशान्तकम् ॥ ११६॥
एतद्वः सङ्ग्रहेणैव प्रोक्तं ज्ञानं मुनीश्वराः ।
उद्दालकश्रुतार्थस्य चिन्तनं कुरु सत्तम ॥ ११७॥
मननं श्रवणं भक्त्या निदिध्यासनमेव च ।
आसुप्तेरामृतेर्विप्राः कुरुध्वं भक्तिभावनाः ॥ ११८॥
एतदेव मुनिश्रेष्ठा मम ज्ञानाङ्गमुच्यते ।
अन्यदेवस्मृतिश्चापि भस्मपुण्ड्रस्यधारणम् ॥ ११९॥
स एव तमसाऽऽविष्टो नैवेदं प्राप्नुयात क्वचित् ।
मत्प्रसादेन विज्ञानं मत्सादेन मुक्तयः ॥ १२०॥
मत्प्रसादेन मुनयः सर्वं प्राप्यत एव हि ।
यस्य कस्यापि नो देयं ज्ञानमेव सुदुर्लभम् ॥ १२१॥
नावेदविदुषे देयं गोप्यमेतत्प्रयत्नतः ।
अपात्रेषु ददन्नेतत्प्रज्ञानं भूसुरोत्तमाः
नरो नरकमाप्नोति सह पूर्वैः पितामहैः ॥ १२२॥
इत्थं मत्तो महादेवि ज्ञानं प्रापय मुनीश्वराः ।
प्रणम्य मुनयः सर्वे मामाहुर्वीतकल्मषाः ॥ १२३॥
मुनयः -
न जानन्ति बोधं न वाऽऽनन्दसिद्धिं भवद्भक्तिलेशाद्विहीनातिहीनाः ।
श्रुतेर्वाक्यतः सिद्धिमीयुम्तुरीयां महेशान शम्भो गुरौ वा लभेत (?) ॥ १२४॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे श्रीदक्षिणामूर्तिना वसिष्ठादिभ्यो ज्ञानोपदेशवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २५॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 25..
Notes:
Having accepted the earnest prayers of Muni-s of the order of Vasishtha, Vamadeva, Vishwamitra, Angira, Bhardwaja, Gautama, Vyasa, Parashara et al; Shri Dakshinamurty had manifested from the Aghora-mukha - the Southern face of the Gokarneshwara ShivaLinga, in order to satiate their quest. Shri Dakshinamurty accords the Shiva-Gyanopadesha that the Muni-s intended to seek.
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan