श्रीकृष्णलीलाशुकमुनिप्रणीतो दक्षिणामूर्तिस्तवः

श्रीकृष्णलीलाशुकमुनिप्रणीतो दक्षिणामूर्तिस्तवः

दुर्वारगर्वभरदूरविजृम्भमाण- मोहान्धकारपरिपाटनबद्धदीक्षः । शश्वद् भृशप्रविसरत्सहजप्रकाश- कोशः प्रभुर्जयति कोऽपि वटस्थलीशः ॥ १॥ अग्नीन्दुभानुभिरशेषजगत्प्रकाशै- रासादितं नयनभावमवेक्ष्य वेदाः । यद् वेदयन्ति महसां तमसां च दूरं तद् दैवतं वटतटीदयितं भजामः ॥ २॥ कल्पद्रुमैरलममीभिरनीश्वराणा- माराधनीयपदवीमधिगम्य रम्यैः । तेऽमी वयं परिवृतं परमेश्वरेण तं वा वटं तमपि वा विभुमाश्रयामः ॥ ३॥ षड्वर्गदुर्गपरिलङ्घनकोपितेन चित्तेन यत्र सुचिरं चपला मुनीन्द्राः । तच्छाम्भवं मधुरिमैकरसोर्मि धाम श्रीमद्वटाश्रयमुपाश्रयितुं यतध्वम् ॥ ४॥ नृत्यन्ति यच्छिरसि नाकनदीप्रवाहा- स्तद्भ्रातरश्व रसने वचसां प्रपञ्चाः । चित्ते दया चरणरेणुषु वाञ्छितार्थाः पायादयं वटतटीदयितो विभुर्वः ॥ ५॥ इन्द्रादयो यदरुणाङ्घ्रिरजःकणेन राज्यश्रियं त्रिभुवनैर्भृशमुद्वहन्ति । व्याघ्रत्वचा परिहितस्य हि तस्य भिक्षो- र्व्याख्याश्रियं वटतटावसथस्य वन्दे ॥ ६॥ आम्नायवीचिसहचारिवचःप्रसारै- रासारसारसरणीमाधिरोहमाणैः । आसिच्य मानसमनन्यधियां मुनीना- माद्यं वटं च विहरन् गिरिशोऽवताद् वः ॥ ७॥ मन्दस्मितेन च मनोहरमुद्रया च व्याख्यानवीथिविभवैश्च विजृम्भमाणैः । आख्यायमाननिजतत्त्वरसानुभूति- र्विश्वेश्वरो वटतटप्रकटोऽवताद्वः ॥ ८॥ ऊर्ध्वं दिवो भवमधश्च भुवो भवन्तं तिर्यक् च पर्यवसिते भववैभवं तम् । गाढं कयापि कृपया वटवृक्षमूले मन्मानसे च विहरन्तमनन्तमीडे ॥ ९॥ रक्ताङ्गुलीयुगळनर्त्तितचारुमुद्रं संसारवृक्षपरितक्षपरश्वधाढ्यम् । क्रीडागृहीतमृगलाञ्छनलाञ्छिताग्रं हस्तेन जानुनिहितेन जगन्मनोज्ञम् ॥ १०॥ तत्तत्फणामणिविभूषणभासुरेण भाग्याधिकेन फणिना कृतयोगपट्टम् । वामेतराङ्घ्रितलकान्तिकरम्बितेन वामोरुणा गिरिसुताहृदयं हरन्तम् ॥ ११॥ इन्दोः कलां खलु जटापटले वहन्तं सर्वाः कला वचनवीथिषु चारयन्तम् । देव्या वृतं गिरिजया मुनिभिः शुकाद्यै- स्तं विश्वतो विशदमादिगुरुं प्रपद्ये ॥ १२॥ (विशेषकम्) त्रिभुवनसुभगेयं दक्षिणामूर्तिमूर्तौ भगवति कृतभावा कृष्णलीलाशुकीया । जयतु जयतु देवी भारती जीवलोक- श्रवणहृदयजिह्वाजन्म साफल्यमेतु ॥ १३॥ इति श्रीकृष्णलीलाशुकमुनिविरचितो दक्षिणामूर्तिस्तवः समाप्तः ॥ Proofread by Preeti N Bhandare
% Text title            : dakShiNAmUrtistavaH
% File name             : dakShiNAmUrtistavaH.itx
% itxtitle              : dakShiNAmUrtistavaH (shrIkRiShNalIlAshukamunivirachito)
% engtitle              : dakShiNAmUrtistavaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shrikrishnalilashukamuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti N. Bhandare
% Indexextra            : (Scans 1, 2)
% Latest update         : December 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org