दक्षिणामूर्तिस्तोत्रं सूतसंहिता
प्रलम्बितजटाबद्धं चन्द्ररेखावतंसकम् ।
नीलग्रीवं शरच्चन्द्रिकाभिर्विराजितम् ॥ १॥
गोक्षीरधवलाकारं चन्द्रबिम्बसमाननम् ।
सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम् ॥ २॥
गङ्गाधरं शिवं शान्तं लसत्केयूरमण्डितम् ।
सर्वाभरणसंयुक्तं सर्वलक्षणसंयुतम् ॥ ३॥
वीरासने समासीनं वेदयज्ञोपवीतिनम् ।
भस्मधाराभिरामं तं नागाभरणभूषितम् ॥ ४॥
व्याघ्रचर्माम्बरं शुद्धं योगपट्टावृतं शुभम् ।
सर्वेषां प्राणिनामात्मज्ञापस्मारपृष्टतः ॥ ५॥
विन्यस्तचरणं सम्यग् ज्ञानमुद्राधरं हरम् ।
सर्वविज्ञानरत्नानं कोशभूतं सुपुस्तकम् ॥ ६॥
दधानं सर्वतत्त्वाक्षमालिकां कुण्डिकामपि ।
स्वात्मभूतपरानन्दपरशक्त्यर्ध विग्रहम् ॥ ७॥
धर्मरूपवृषोपेतं धार्मिकैर्वेदपारगैः ।
मुनिभिस्संऋतं मायावटमूलाश्रितं शुभम् ॥ ८॥
ईशानं सर्वविद्यानामीश्वरेश्वरमव्ययम् ।
उत्पत्त्यादिविनिर्मुक्तं ओङ्कारकमलासनम् ॥ ९॥
स्वात्मविद्याप्रदानेन सदा संसारमोचकम् ।
रुद्रं परमकारुण्यात्सर्वप्राणिहिते रतम् ॥ १०॥
उपासकानां सर्वेषामभीष्टसकलप्रदम् ।
दक्षिणामूर्तिदेवाख्यं जगत्स्वर्गादिकारणम् ॥ ११।
समागत्य महाभक्त्या दण्डवत्पृथिवीतले ।
प्रणम्य बहुशो देवं समाराध्य यथा बलम् ॥ १२॥
रुद्र यत्ते मुखं तेन दक्षिणं पाहि मामिति ।
उक्त्वा पुनः पुनर्देवं पूजयामास भक्तितः ॥ १३॥
॥ इति सूतसंहितान्तर्गतम् दक्षिणामूर्तिस्तोत्रम् ॥
Encoded by Venkata sriram P, venkatasriramp at yahoo.in
Proofread by Sunder Hattangadi