दत्तकृतं शिवस्तोत्रम्
दत्त उवाच ।
संसारकूपे पतितोऽस्मि दैवान्मोहेन गुप्तो भवदुःखपङ्के ।
अज्ञाननाम्ना तमसाऽऽवृतोऽहं परं न विन्दामि सुराधिनाथ ॥ ७॥
भिन्नस्त्रिशूलेन बलीयसाऽहं पापेन चिन्ताक्षुरपाटितश्च ।
तप्तोऽस्मि पञ्चेन्द्रियतीव्रतापैः श्रान्तोऽस्मि सन्तारय सोमनाथ ॥ ८॥
बद्धोऽस्मि दारिद्र्यमयैश्च बन्धैर्हतोऽस्मि रोगानलतीव्रतापैः ।
क्रान्तोऽस्म्यहं मृत्युभुजङ्गमेन भीतो भृशं किं करवाणि शम्भो ॥ ९॥
भवाभवाभ्यामतिपीडितोऽहं तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् ।
ईदृक्षया जरया चाभिभूतः पश्यावस्थां कृपया मेऽद्य नाथ ॥ १०॥
कामेन कोपेन च मत्सरेण दम्भेन दर्पादिभिरप्यनेकैः ।
एकैकशः कष्टगतोऽस्मि विद्धस्त्वं नाथवद्वारय नाथ शत्रून् ॥ ११॥
कस्यापि कश्चित्पतितस्य पुंसो दुःखप्रणोदी भवतीति सत्यम् ।
विना भवन्तं मम सोमनाथ कुत्रापि कारुण्यवचोऽपि नास्ति ॥ १२॥
तावत्स कोपो भयमोहदुःखान्यज्ञानदारिद्र्यरुजस्तथैव ।
कामादयो मृत्युरपीह यावन्नमः शिवायेति न वच्मि वाक्यम् ॥ १३॥
न मेऽस्ति धर्मो न च मेऽस्ति भक्तिर्नाहं विवेकी करुणा कुतो मे ।
दाताऽसि तेनाशु शरण्य चित्ते निधेहि सोमेति पदं मदीये ॥ १४॥
याचे न चाहं सुरभूपतित्वं हृत्पद्ममध्ये मम सोमनाथ ।
श्रीसोमपादाम्बुजसन्निधानं याचे विचार्यैंव च तत्कुरुष्व ॥ १५॥
यथा तवाहं विदितोऽस्मि पापस्तथाऽपि विज्ञापनमाशृणुष्व ।
संश्रूयते यत्र वचः शिवेति तत्र स्थितिः स्यान्मम सोमनाथ ॥ १६॥
गौरीपते शङ्कर सोमनाथ विश्वेश कारुण्यनिधेऽखिलात्मन् ।
संस्तूयते यत्र सदेति तत्र केषामपि स्यात्कृतिनां निवासः ॥ १७॥
इति ब्रह्मपुराणे सप्तदशाधिकशततमाध्यायान्तर्गतं
दत्तकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ११७/७-१७॥
brahmapurANa . adhyAya 117/7-17..
Proofread by PSA Easwaran