देवादिभिः कृतं २ शिवस्तोत्रम्
इत्युक्त्वान्योन्यमनघं तुष्टुवुः शिवमीश्वरम् ।
नमः सर्वात्मने तुभ्यं सर्वज्ञाय पिनाकिने ॥ ७॥
अनघाय विरिञ्चाय देव्याः कार्यार्थदायिने ।
अकायायार्थकायाय हरेः कायापहारिणे ॥ ८॥
कायान्तस्थामृताधारमण्डलावस्थिताय ते ।
कृतादिभेदकालाय कालवेगाय ते नमः ॥ ९॥
कालाग्निरुद्ररुपाय धर्माद्यष्टपदाय च ।
कालीविशुद्धदेहाय कालिकाकारणाय ते ॥ १०॥
कालकण्ठाय मुख्याय वाहनाय वराय ते ।
अम्बिकापतये तुभ्यं हिरण्यपतये नमः ॥ ११॥
हिरण्यरेतसे चैव नमः शर्वाय शूलिने ।
कपालदण्डपाशासिचर्माङ्कुशधराय च ॥ १२॥
पतये हैमवत्याश्च हेमशुक्लाय ते नमः ।
पीतशुक्लाय रक्षार्थं सुराणां कृष्णवर्त्मने ॥ १३॥
पञ्चमाय महापञ्चयज्ञिनां फलदाय च ।
पञ्चास्यफणिहाराय पञ्चाक्षरमयाय ते ॥ १४॥
पञ्चधा पञ्चकैवल्यदेवैरर्चितमूर्तये ।
पञ्चाक्षरदृशे तुभ्यं परात्परतराय ते ॥ १५॥
षोडशस्वरवज्राङ्गवक्त्रायाक्षयरूपिणे ।
कादिपञ्चकहस्ताय चादिहस्ताय ते नमः ॥ १६॥
टादिपादाय रुद्राय तादिपादाय ते नमः ।
पादिमेढ्राय यद्यङ्गधातुसप्तकधारिणे ॥ १७॥
शान्तात्मरूपिणे साक्षात्क्षदततक्रोधिने नमः ।
लवरेफहळाङ्गाय निरङ्गाय च ते नमः ॥ १८॥
सर्वेषामेव भूतानां हृदि निःस्वनकारिणे ।
भ्रुवोरन्ते सदा सद्भिर्दृष्टायात्यन्तभानवे ॥ १९॥
भानुसोमाग्निनेत्राय परमात्मस्वरूपिणे ।
गुणत्रयोपरिस्थाय तीर्थपादाय ते नमः ॥ २०॥
तीर्थतत्त्वाय साराय तस्मादपि पराय ते ।
ऋग्जयुः सामवेदाय ओङ्काराय नमो नमः ॥ २१॥
ॐ कारे त्रिविधं रूपमास्थायोपरिवासिने ।
पीताय कृष्णवर्णाय रक्तायात्यन्ततेजसे ॥ २२॥
स्थानपञ्चकसंस्थाय पञ्चधाण्डबहिः क्रमात् ।
ब्रह्मणे विष्णवे तुभ्यं कुमाराय नमो नमः ॥ २३॥
अम्बायाः परमेशाय सर्वोपरिचारय ते ।
मूलसूक्ष्मस्वरूपाय स्थूलसूक्ष्माय ते नमः ॥ २४॥
सर्वसङ्कल्पशून्याय सर्वस्माद्रक्षिताय ते ।
आदिमध्यान्तशून्याय चित्संस्थाय नमो नमः ॥ २५॥
यमाग्निवायुरुद्राम्बुसोमशक्रनिशाचरैः ।
दिङ्मुखे दिङ्मुखे नित्यं सगणैः पूजिताय ते ॥ २६॥
सर्वेषु सर्वदा सर्वमार्गे सम्पूजिताय ते ।
रुद्राय रुद्रनीलाय कद्रुद्राय प्रचेतसे ।
महेश्वराय धीराय नमः साक्षाच्छिवाय ते ॥ २७॥
अथ शृणु भगवन् स्तवच्छलेन
कथितमजेन्द्रमुखैः सुरासुरेशैः ।
मखमदनयमाग्निदक्षयज्ञ-
क्षपणविचित्रविचेष्टितं क्षमस्व ॥ २८॥
सूत उवाच ।
यः पठेत्तु स्तवं भक्या शक्राग्निप्रमुखैः सुरैः ।
कीर्तितं श्रावयेद्विद्वान् स याति परमां गतिम् ॥ २९॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे देवादिस्तुतिर्नाम
चतुरधिकशततमोऽध्यायः ॥ १०४॥
लिङ्गपुराण । पूर्वभाग । अध्याय १०४/७-२९॥
lingapurANa . pUrvabhAga . adhyAya 104/7-29..
Proofread by PSA Easwaran