देवादिभिः कृतं ७ शिवस्तोत्रम्
ब्रह्मोवाच ।
समाराध्य हरं सुखमवाप्नुमः ।
गच्छामः शरणं देवं कैलासं तु शिवालयम् ॥ ६२॥
जग्मुश्च संहतास्तत्र ददृशुः शङ्करं स्थितम् ।
अलिङ्गं च ततः स्तोतुं समारब्धाः सुरास्तदा ॥ ६३॥
अलिङ्गाय महाज्वालानलरूपाय ते नमः ।
दिगम्बरायाऽविकृतये पराकृतये नमः ॥ ६४॥
दिव्यलीलाप्रर्कत्रे ते क्षमाशीलाय ते नमः ।
नमः शान्तस्वरूपाय घोरलिङ्गाय ते नमः ॥ ६५॥
नोऽपराधान् क्षमस्वाऽत्र महादेव नमोऽस्तु ते ।
स्वलिङ्गं पतितं देव प्रभो समुपसंहर ॥ ६६॥
त्रैलोक्यं दहति वह्निमयं द्वादशरूपभाक् ।
कृपां कुरु महादेव तव लीलामयं जगत् ॥ ६७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
१९६-अध्यायान्तर्गतं देवादिभिः कृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १९६/६२-६७॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 196/62-67..
Proofread by PSA Easwaran