देवापिकृतं शिवस्तोत्रम्
देवापिरुवाच ।
बालोऽहं देवदेवेश गुरूणां त्वं गुरुर्मम ।
न मे शक्तिस्त्वत्स्तवने तुभ्यं शम्भो नमोऽस्तु ते ॥ ४८॥
न त्वां जानन्ति निगमा न देवा मुनयो न च ।
न ब्रह्मा नापि वैकुण्ठो योऽसि सोऽसि नमोऽस्तु ते ॥ ४९॥
येऽनाथा ये च कृपणा ये दरिद्राश्च रोगिणः ।
पापात्मानो ये च लोके तांस्त्वं पासि महेश्वर ॥ ५०॥
तपसा नियमैर्मन्त्रैः पूजितास्त्रिदिवौकसः ।
त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते ॥ ५१॥
याचितारश्च दातारस्तेभ्यो यद्यन्मनीषतिम् ।
भवतीति न चित्रं स्यात्त्वं विपर्ययकारकः ॥ ५२॥
येऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे ।
शिवेति वचनान्नाथ तान्पासि त्वं जगद्गुरो ॥ ५३॥
इति ब्रह्मपुराणे सप्तविंशाधिकशततमाध्यायान्तर्गतं
देवापिकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय १२७/४८-५३॥
brahmapurANa . adhyAya 127/48-53..
Proofread by PSA Easwaran