देवीकृता ३ शिवस्तुतिः
देव्युवाच ।
वसुधाधरहारवास शम्भो
वसुधाराधिपपूज्यपाद देव ।
सुसुधाधरशेखरस्त्वमीशो-
ऽस्यसुघारोऽस्यधरामृतार्धदेहः ॥ ८०॥
ताराकारसुहीरहारक भवत्काकोदराकारधृक्-
कर्पूराभकलेवरादि विलसन्माराङ्गभस्माक्षधृक् ।
पारावार भवोरु सागरमहावैश्वानरायाद्य ते
सारासारविचारकारण विभो पादौ भजाम्यद्य ते ॥ ८१॥
भव भव शङ्कर हर मृड गरधर
कुरु कुरु करुणां शशिमौले ।
शिव तव वदनाम्बुजरसमधुना
मधु विधुसुरसं विधुनोति ॥ ८२॥
॥ इति शिवरहस्यान्तर्गते देवीकृता शिवस्तुतिः ३ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४८ । ८०-८२॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 48 . 80-82..
Notes:
Devī देवी eulogizes Śiva शिव towards the conclusion of ŚivaRahasyam Iśvarākhyaḥ Daśamāmśaḥ शिवरहस्यम् ईश्वराख्यः दशमांशः.
Proofread by Ruma Dewan