देवैःकृता शिवस्तुतिः
श्रीवामदेव जितकाम सहस्रधाम स्तोमैकसीम निखिलागमसंस्तुताङ्घ्रे ।
भूमा त्वमेव शशिधामकलाललाम हृव्द्योमभूम भगवन् सततं नमस्ते ॥ ३८॥
अन्तकान्तक सदैव दान्तहृत्पद्मसद्मग महेश कृपाब्धे ।
कान्त शान्त गिरिजावरकान्त वेदान्तवेद्य भवतान्तमवाद्य शम्भो ॥ ३९॥
इन्दुकुन्दधवलाङ्गमहोक्षापाङ्गसङ्गचरणाम्बुज पाहि ।
शाङ्गलिङ्गकृतसङ्ग महाङ्गाशास्थलोकन हराव्यय पाहि ॥ ४५॥
गङ्गातुङ्गतरङ्गरङ्गितजटाजूटेन्दुखण्डोज्वल
ज्वालाजालविलोचनोत्तम महाकाकोदराकल्पक ।
लीलाचालितरञ्जितत्रिभुवनापारर्णवान्तःस्थित
घोराशीविषनाधरञ्जितमहापादाम्बुजावाद्य माम् ॥
मुकुन्दनयनार्चितं पदयुगं प्रपन्नोऽस्मि ते
सनन्दनसनातनकलितवन्दनं नन्दनम् ।
हृदम्बुधितरङ्गकैः निखिलवेदवेद्यं सदा
पदाम्बुजमरन्दपो भवतु मानसः षट्पदः ॥ ४७॥
कुलाचलकुमारिकाकुवतटीविहारादरं
त्वदीयमधुना प्रभो मयि महाघदुःखैर्युते ।
निधेहि यदि मानसं तदिह मुक्तिकान्तापति-
र्भत्रामि भुवनेऽपि सन् कुरु दयां त्वदीये शिक्षौ ॥ ४८॥
विश्राणय श्रमहरामनवद्यदृष्टिं
कष्टौघभेदनवोधौ विधिविष्णुवन्द्य ।
आद्योत्तमोत्तम भिवग्वरचन्द्रचूड
संसाररोगहर रुद्र रुजं विनाश्य ॥ ४९॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये देवैःकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः १४ । ३८-३९, ४५-४९॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 14 . 38-39, 45-49..
Notes: Devā-s देवाः eulogize Śiva शिव as He manifests out of the Śivaliṅga शिवलिङ्ग for protecting Mārkaṇḍeya मार्कण्डेय from Yama यम - the harbinger of death; and, grants the desired boon to Mārkaṇḍeya मार्कण्डेय.
Proofread by Ruma Dewan