देवैः कृता शिवस्तुतिः ६
देवा ऊचुः ।
नमो विषमनेत्राय नमस्ते त्र्यम्बकाय च ।
नमः सहस्रनेत्राय नमस्ते शूलपाणये ॥ ६५॥
नमः खट्वाङ्गहस्ताय नमो दण्डभृते करे ।
त्वं देव हुतभुग्ज्वालाकोटिभानुसमप्रभः ॥ ६६॥
अदर्शनेऽनयद्देव मूढविज्ञानतोऽधुना ।
कृतमस्माभिरेवेश तदत्र क्षम्यतां प्रभो ॥ ६७॥
नमस्त्रिनेत्रार्त्तिहराय शम्भो त्रिशूलपाणे विकृतास्यरूप ।
समस्तदेवेश्वर शुद्धभाव प्रसीद रुद्राच्युत सर्वभाव ॥ ६८॥
पूष्णोऽस्य दन्तान्तक भीमरूप प्रलम्बभोगीन्द्रलुलन्तकण्ठ ।
विशालदेहाच्युत नीलकण्ठ प्रसीद विश्वेश्वर विश्वमूर्त्ते ॥ ६९॥
भगाक्षिसंस्फोटनदक्षकर्मा गृहाण भागं मखतः प्रधानम् ।
प्रसीद देवेश्वर नीलकण्ठ प्रपाहि नः सर्वगुणोपपन्न ॥ ७०॥
सिताङ्गरागाप्रतिपन्नमूर्त्ते कपालधारिंस्त्रिपुरघ्न देव ।
प्रपाहि नः सर्वभयेषु चैव उमापते पुष्करनालजन्म ॥ ७१॥
पश्याम ते देहगतान् सुरेश सर्गादयो वेदवराननन्त ।
साङ्गान् सविद्यान् सपदक्रमांश्च सर्वान् निलीनांस्त्वयि देवदेव ॥ ७२॥
भव शर्व महादेव पिनाकिन् रुद्र ते हर ।
नताः स्म सर्वे विश्वेश त्राहि नः परमेश्वर ॥ ७३॥
इति वराहपुराणे एकविंशाध्यायान्तर्गता देवैः कृता शिवस्तुतिः समाप्ता ।
वराहपुराण । अध्याय २१/६५-७३॥
varAhapurANa . adhyAya 21/65-73..
Proofread by PSA Easwaran