देवैः कृता शिवस्तुतिः ७
देवा ऊचुः ।
नमाम सर्वे शरणार्थिनो वयं महेश्वरं त्र्यम्बकभूतभावनम् ।
उमापते विश्वपते मरुत्पते जगत्पते शङ्कर पाहि नः स्वयम् ॥ १७॥
जटाकलापाग्रशशाङ्कदीधितिप्रकाशिताशेषजगत्त्रयामल ।
त्रिशूलपाणे पुरुषोत्तमाच्युत प्रपाहि दैत्याच्च जगत्त्रयोदरे ॥ १८॥
त्वमादिदेवः पुरुषोत्तमो हरिर्भवो महेशस्त्रिपुरान्तको विभुः ।
भगाक्षिहा दैत्यरिपुः पुरातनो वृषध्वजः पाहि सुरोत्तमोत्तम ॥ १९॥
गिरीशजानाथ गिरिप्रियाप्रिय प्रभो समस्तामरलोकपूजित ।
गणेश भूतेश शिवाक्षयाव्यय प्रपाहि नो दैत्यवरान्तकाच्युत ॥ २०॥
पृथ्व्यादितत्त्वेषु भवान् प्रतिष्ठितो ध्वनिस्वरूपो गगने विशेषतः ।
वायौ द्विधा तेजसि च त्रिधा जले चतुः क्षितौ पञ्चगुणः प्रपाहि नः ॥ २१॥
अग्निस्वरूपोऽसि तरौ तथोपले सत्त्वस्वरूपोऽसि तथा जलेष्वपि ।
तेजःस्वरूपो भगवान् महेश्वरः प्रपाहि नो दैत्यगणार्दितान् हर ॥ २२॥
नासीद्यदाऽकाण्डमिदं त्रिलोचन प्रभाकरेन्द्रद्रविणाधिपाः कुतः ।
तदा भवानेव विरुद्धलोचन प्रमाणबाधादिविवर्जितः स्थितः ॥ २३॥
कपालमालिन् शशिखण्डशेखर श्मशानवासिन् सितभस्मगुण्ठित ।
फणीन्द्रसंवीततनोऽन्तकापह प्रपाहि नो दक्षधिया सुरेश्वर ॥ २४॥
भवान् पुमान् शक्तिरियं गिरेः सुता सर्वाङ्गरूपा भगवंस्तथा त्वयि ।
त्रिशूलरूपेण जगत्त्रयं करे स्थितं त्रिनेत्रेषु मखाग्नयस्त्रयः ॥ २५॥
जटास्वरूपेण समस्तसागराः कुलाचलाः सिन्धुवहाश्च सर्वशः ।
शशी परं ज्ञानमिदं तव स्थितं न देव पश्यन्ति कुदृष्टयो जनाः ॥ २६॥
नारायणस्त्वं जगतां समुद्भवस्तथा भवः सैव चतुर्मुखो भवान् ।
सत्त्वादिभेदेन तथाग्निभेदतो युगादिभेदेन च संस्थितस्त्रिधा ॥ २७॥
भवन्तमेते सुरनायकाः प्रभो भवार्थिनोऽन्यस्य वदन्ति तोषयन् ।
यतस्ततो नो भव भूतिभूषण प्रपाहि विश्वेश्वर रुद्र ते नमः ॥ २८॥
इति वराहपुराणे पञ्चविंशाध्यायान्तर्गता देवैः कृता शिवस्तुतिः समाप्ता ।
वराहपुराण । अध्याय २५/१७-२८॥
varAhapurANa . adhyAya 25/17-28..
Proofread by PSA Easwaran