देवैः कृता शिवस्तुतिः ८
देवा ऊचुः ।
नमो देवातिदेवाय त्रिनेत्राय महात्मने ।
रक्तपिङ्गलनेत्राय जटामुकुटधारिणे ॥ १६॥
भूतवेतालजुष्टाय महाभोगोपवीतिने ।
भीमाट्टहासवक्त्राय कपर्दिन् स्थाणवे नमः ॥ १७॥
पूष्णो दन्तविनाशाय भगनेत्रहने नमः ।
भविष्यवृषचिह्नाय महाभूतपते नमः ॥ १८॥
भविष्यत्रिपुरान्ताय तथान्धकविनाशिने ।
कैलासवरवासाय करिकृत्तिनिवासिने ॥ १९॥
विकरालोर्ध्वकेशाय भैरवाय नमो नमः ।
अग्निज्वालाकरालाय शशिमौलिकृते नमः ॥ २०॥
भविष्यकृतकापालिव्रताय परमेष्ठिने ।
तथा दारुवनध्वंसकारिणे तिग्मशूलिने ॥ २१॥
कृतकङ्कणभोगीन्द्र नीलकण्ठ त्रिशूलिने ।
प्रचण्डदण्डहस्ताय वडवाग्निमुखाय च ॥ २२॥
वेदान्तवेद्याय नमो यज्ञमूर्ते नमो नमः ।
दक्षयज्ञविनाशाय जगद्भयकराय च ॥ २३॥
विश्वेश्वराय देवाय शिवशम्भुभवाय च ।
कपर्दिने करालाय महादेवाय ते नमः ॥ २४॥
इति वराहपुराणे त्रयस्त्रिंशाध्यायान्तर्गता देवैः कृता शिवस्तुतिः समाप्ता ।
वराहपुराण । अध्याय ३३/१६-२४॥
varAhapurANa . adhyAya 33/16-24..
Proofread by PSA Easwaran