देवैः कृतं ४ शिवस्तोत्रम्
देवा ऊचुः ।
भक्तप्रियत्वं ते नित्यं दुष्टहन्तृत्वमेव च ।
आदिकर्तर्नमस्तुभ्यं नीलकण्ठ नमोऽस्तु ते ।
ब्रह्मप्रिय नमस्तेऽस्तु देवप्रिय नमोऽस्तु ते ॥ २७॥
श्वेतं द्विजं भक्तमनायुषं ते नेतुं यमादिः सकलोऽसमर्थः ।
सन्तोषमाप्ताः परमं समीक्ष्य भक्तप्रियत्वं त्वयि नाथ सत्यम् ॥ २८॥
ये त्वां प्रपन्नाः शरणं कृपालुं नालं कृतान्तोऽप्यनुवीक्षितुं तान् ।
एवं विदित्वा शिव एव सर्वे त्वामेव भक्त्या परया भजन्ते ॥ २९॥
त्वमेव जगतां नाथ किं न स्मरसि शङ्कर ।
त्वां विना कः समर्थोऽत्र व्यवस्थां कर्तुमीश्वरः ॥ ३०॥
इति ब्रह्मपुराणे चतुर्नवतितमाध्यायान्तर्गतं
देवैः कृतं शिववस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ९४/२७-३०॥
brahmapurANa . adhyAya 94/27-30..
Proofread by PSA Easwaran