देवैः कृतं ५ शिवस्तोत्रम्
देवा ऊचुः ।
रक्षस्व शम्भो कृत्याऽस्मान् बाधते तद्भवानलः ।
शरणं भव सर्वेश भीतानामभयप्रद ॥ १३४॥
सर्वतः परिभूतानामार्तानां श्रान्तचेतसाम् ।
सर्वेषामेव जन्तूनां त्वमेव शरणं शिव ॥ १३५॥
ऋषिणाऽभ्यर्थिता कृत्या त्वच्चक्षुर्वह्निनिर्गता ।
सा जिघांसति लोकांस्त्रींस्त्वं नस्त्राता न चेतरः ॥ १३६॥
इति ब्रह्मपुराणे दशाधिकशततमाध्यायान्तर्गतं
देवैः कृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ११०/१३४-१३६॥
brahmapurANa . adhyAya 110/134-136..
Proofread by PSA Easwaran