देवैः कृतं ८ शिवस्तोत्रम्

देवैः कृतं ८ शिवस्तोत्रम्

(नन्दाव्रतविधानशिवस्तुतिवर्णनम्) देवा ऊचुः । नमो भगवते तुभ्यं यत एतच्चराचरम् । पुरुषाय महेशाय परेशाय महात्मने ॥ ३६॥ आदिबीजाय सर्वेषां चिद्रूपाय पराय च । ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७॥ य इदं प्रतिपञ्च्येदं येनेदं विचकास्ति हि । यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ॥ ३८॥ योऽस्मात्परस्माच्च परो निर्विकारी महाप्रभुः । ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयम्भुवम् ॥ ३९॥ अविद्धदृक् परः साक्षी सर्वात्माऽनेकरूपधृक् । आत्मभूतः परब्रह्म तपन्तं शरणं गताः ॥ २.१५.४०॥ न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् । कः पुनर्जन्तुरपरो ज्ञातुमर्हति वेदितुम् ॥ ४१॥ दिदृक्षवो यस्य पदं मुक्तसङ्गास्सुसाधवः । चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥ ४२॥ त्वज्जन्मादिविकारा नो विद्यन्ते केऽपि दुःखदाः । तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥ ४३॥ तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे । नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥ ४४॥ अरूपायोरुरूपाय परायानन्तशक्तये । त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥ ४५॥ नम आत्मप्रदीपाय निर्वाणसुखसम्पदे । ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥ ४६॥ नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः । पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४७॥ क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे ॥ ४८॥ सर्वाध्यक्षाय महते मूलप्रकृतये नमः । पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४९॥ त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः । सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोऽस्तु ते ॥ २.१५.५०॥ त्रिलोककारणायाथापवर्गाय नमो नमः । अपवर्गप्रदायाशु शरणागततारिणे ॥ ५१॥ सर्वाम्नायागमानां चोदधये परमेष्ठिने । परायणाय भक्तानां गुणानां च नमोऽस्तु ते ॥ ५२॥ नमो गुणारणिच्छन्न चिदूष्माय महेश्वर । मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥ ५३॥ पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च । स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे ॥ ५४॥ प्रत्यग्द्रष्ट्रेऽविकाराय परमैश्वर्यधारिणे । यं भजन्ति चतुर्वर्गे कामयन्तीष्टसद्गतिम् । सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥ ५५॥ एकान्तिनः कञ्चनार्थं भक्ता वाञ्छन्ति यस्य न । केवलं चरितं ते ते गायन्ति परमङ्गलम् ॥ ५६॥ अक्षरं परमं ब्रह्म तमव्यक्ताकृतिं विभुम् । अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥ ५७॥ अतीन्द्रियमनाधारं सर्वाधारमहेतुकम् । अनन्तमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥ ५८॥ हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः । नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ ५९॥ यथार्चिषोऽग्नेस्सवितुर्यान्ति निर्यान्ति वासकृत् । गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥ २.१५.६०॥ न त्वं देवोऽसुरो मर्त्यो न तिर्यङ्न द्विजः प्रभो । न स्त्री न षण्ढो न पुमान् सदसन्न च किञ्चन ॥ ६१॥ निषेधशेषस्सर्वं त्वं विश्वकृद्विश्वपालकः । विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम् ॥ ६२॥ योगरन्धितकर्माणो यं प्रपश्यन्ति योगिनः । योगसम्भाविते चित्ते योगेशं त्वां नता वयम् ॥ ६३॥ नमोऽस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय । नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥ ६४॥ कदिन्द्रियाणां दुर्गेशानवाप्य परवर्त्मने । भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥ ६५॥ यच्छक्त्याहं धियाऽऽत्मानं हन्त वेद न मूढधीः । तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ॥ ६६॥ ब्रह्मोवाच । इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः । तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकन्धराः ॥ ६७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५॥ शिवपुराण । रुद्रसंहिता । सतीखण्ड । अध्याय १५/३६-६६॥ shivapurANa . rudrasaMhitA . satIkhaNDa . adhyAya 15/36-66.. Proofread by PSA Easwaran
% Text title            : Devaih Kritam 08 Shiva Stotram
% File name             : devaiHkRRitaM08shivastotram.itx
% itxtitle              : shivastotram (devaiH kRitaM 08 shivapurANAntargatam namo bhagavate tubhyaM yata etachcharAcharam)
% engtitle              : devaiH kRRitaM 08 shivastotram
% Category              : shiva, shivapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : shivapurANa | rudrasaMhitA | satIkhaNDa | adhyAya 15/36-66||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, Hindi 1, 2, 3, 4, 5, Bengali, Thesis, Kalyan 1, 2)
% Latest update         : November 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org