देवैः कृतं १० शिवस्तोत्रम्
देवा ऊचुः ।
देवदेव जगद्व्यापिन्परमेश सदाशिव ।
जगदीश जगन्नाथ सम्प्रसीद जगन्मय ॥ १२॥
सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ।
निर्विकारोऽव्ययो नित्यो निर्विकल्पोऽक्षरः परः ॥ १३॥
आद्यन्तावस्य यन्मध्यमिदमन्यदहम्बहिः ।
यतोऽव्ययः सनैतानि तत्सत्यम्ब्रह्म चिद्भवान् ॥ १४॥
तवैव चरणाम्भोजं मुक्तिकामा दृढव्रताः ।
विसृज्योभयतस्सङ्गं मुनयस्समुपासते ॥ १५॥
त्वम्ब्रह्म पूर्णममृतं विशोकं निर्गुणं परम् ।
आनन्दमात्रमव्यग्रमविकारमनात्मकम् ॥ १६॥
विश्वस्य हेतुरुदयस्थितिसंयमनस्य हि ।
तदपेक्षतयाऽऽत्मेशोऽनपेक्षस्सर्वदा विभुः ॥ १७॥
एकस्त्वमेव सदसद्द्वयमद्वयमेव च ।
स्वर्णं कृताकृतमिव वस्तुभेदो न चैव हि ॥ १६॥
अज्ञानतस्त्वयि जनैर्विकल्पो विदितो यतः ।
तस्माद्भ्रमप्रतीकारो निरुपाधेर्न हि स्वतः ॥ १९॥
धन्या वयं महेशान तव दर्शनमात्रतः ।
दृढभक्तजनानन्दप्रदश्शम्भो दयां कुरु ॥ २०॥
त्वमादिस्त्वमनादिश्च प्रकृतेस्त्वं परः पुमान् ।
विश्वेश्वरो जगन्नाथो निर्विकारः परात्परः ॥ २१॥
योऽयं ब्रह्मास्ति रजसा विश्वमूर्तिः पितामहः ।
त्वत्प्रसादात्प्रभो विष्णुस्सत्त्वेन पुरुषोत्तमः ॥ २२॥
कालाग्निरुद्रस्तमसा परमात्मा गुणः परः ।
सदाशिवो महेशानस्सर्वव्यापी महेश्वरः ॥ २३॥
व्यक्तं महच्च भूतादिस्तन्मात्राणीन्द्रियाणि च ।
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥ २४॥
महादेव परेशान करुणाकर शङ्कर ।
प्रसीद देवदेवेश प्रसीद पुरुषोत्तम ॥ २५॥
वासांसि सागरास्सप्त दिशश्चैव महाभुजाः ।
द्यौर्मूर्द्धा ते विभोर्नाभिः खं वायुर्नासिका ततः ॥ २६॥
चक्षूंष्यग्नी रविस्सोमः केशा मेघास्तव प्रभो ।
नक्षत्रतारकाद्याश्च ग्रहाश्चैव विभूषणम् ॥ २७॥
कथं स्तोष्यामि देवेश त्वां विभो परमेश्वर ।
वाचामगोचरोऽसि त्वं मनसा चापि शङ्कर ॥ २८॥
पञ्चास्याय च रुद्राय पञ्चाशत्कोटिमूर्तये ।
त्र्यधिपाय वरिष्ठाय विद्यातत्त्वाय ते नमः ॥ २९॥
अनिर्देश्याय नित्याय विद्युज्ज्वालाय रूपिणे ।
अग्निवर्णाय देवाय शङ्कराय नमो नमः ॥ ३०॥
विद्युत्कोटिप्रतीकाशमष्टकोणं सुशोभनम् ।
रूपमास्थाय लोकेऽस्मिन्संस्थिताय नमो नमः ॥ ३१॥
इति शिवपुराणे रुद्रसंहितायां पार्वतीखण्डे
एकोनपञ्चाशत्तमाध्यायान्तर्गतं देवैः कृतं
शिवस्तोत्रं समाप्तम् ।
शिवपुराण । रुद्रसंहिता ३ । पार्वतीखण्ड । अध्याय ४९/१२-३१॥
shivapurANa . rudrasaMhitA 3 . pArvatIkhaNDa . adhyAya 49/12-31..
Proofread by PSA Easwaran