देवैः कृतं १२ शिवस्तोत्रम्
देवा ऊचुः ।
देवदेव महादेव भक्तानामभयप्रद ।
नमो नमस्ते बहुशः कृपाकर महेश्वर ॥ २९॥
अद्भुता ते महादेव महालीला सुखप्रदा ।
सर्वेषां शङ्कर सतां दीनबन्धो महाप्रभो ॥ ४.१२.३०॥
एवं मूढधियश्चाज्ञाः पूजायां ते सनातनम् ।
आवाहनं न जानीमो गतिं नैव प्रभोऽद्भुताम् ॥ ३१॥
गङ्गासलिलधाराय ह्याधाराय गुणात्मने ।
नमस्ते त्रिदशेशाय शङ्कराय नमो नमः ॥ ३२॥
वृषाङ्काय महेशाय गणानां पतये नमः ।
सर्वेश्वराय देवाय त्रिलोकपतये नमः ॥ ३३॥
संहर्त्रे जगतां नाथ सर्वेषां ते नमो नमः ।
भर्त्रे कर्त्रे च देवेश त्रिगुणेशाय शाश्वते ॥ ३४॥
विसङ्गाय परेशाय शिवाय परमात्मने ।
निष्प्रपञ्चाय शुद्धाय परमायाव्ययाय च ॥ ३५॥
दण्डहस्ताय कालाय पाशहस्ताय ते नमः ।
वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः ॥ ३६॥
भूतं भव्यं भविष्यच्च स्थावरं जङ्गमं च यत् ।
तव देहात्समुत्पन्नं सर्वथा परमेश्वर ॥ ३७॥
पाहि नस्सर्वदा स्वामिन्प्रसीद भगवन्प्रभो ।
वयं ते शरणापन्नाः सर्वथा परमेश्वर ॥ ३८॥
शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः ।
अरूपाय सरूपाय विश्वरूपाय ते नमः ॥ ३९॥
शिवाय नीलकण्ठाय चिताभस्माङ्गधारिणे ।
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमो नमः ॥ ४.१२.४०॥
सर्वप्रणतदेहाय संयमप्रणताय च ।
महादेवाय शर्वाय सर्वार्चितपदाय च ॥ ४१॥
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ।
आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यसे ॥ ४२॥
पर्वतानां सुमेरुस्त्वं नक्षत्राणां च चन्द्रमा ।
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ॥ ४३॥
अकारस्सर्ववेदानां त्राता भव महेश्वर ।
त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ॥ ४४॥
महेश्वर महाभाग शुभाशुभनिरीक्षक ।
आप्यायास्मान्हि देवेश कर्तॄन्वै वचनं तव ॥ ४५॥
रूपकोटिसहस्रेषु रूपकोटिशतेषु ते ।
अन्तं गन्तुं न शक्ताः स्म देवदेव नमोऽस्तु ते ॥ ४६॥
इति शिवपुराणे रुद्रसंहितायां कुमारखण्डे द्वादशाध्यायान्तर्गतं
देवैः कृतं शिवस्तोत्रं समाप्तम् ।
शिवपुराण । रुद्रसंहिता । कुमारखण्ड । अध्याय १२/२९-४६॥
shivapurANa . rudrasaMhitA . kumArakhaNDa . adhyAya 12/29-46..
Proofread by PSA Easwaran