देवैः कृतं १३ शिवस्तोत्रम्
देवा ऊचुः ।
नमस्सर्वात्मने तुभ्यं शङ्करायार्तिहारिणे ।
रुद्राय नीलकण्ठाय चिद्रूपाय प्रचेतसे ॥ ५.६.१०॥
गतिर्नस्सर्वदा त्वं हि सर्वापद्विनिवारकः ।
त्वमेव सर्वदाऽऽत्माभिर्वन्द्यो देवारिसूदन ॥ ११॥
त्वमादिस्त्वमनादिश्च स्वानन्दश्चाक्षयः प्रभुः ।
प्रकृतेः पुरुषस्यापि साक्षात्स्रष्टा जगत्प्रभुः ॥ १२॥
त्वमेव जगतां कर्ता भर्ता हर्ता त्वमेव हि ।
ब्रह्मा विष्णुर्हरो भूत्वा रजस्सत्त्वतमोगुणैः ॥ १३॥
तारकोऽसि जगत्यस्मिन्सर्वेषामधिपोऽव्ययः ।
वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः ॥ १४॥
याच्यो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः ।
हृत्पुण्डरीकविवरे योगिनां त्वं हि संस्थितः ॥ १५॥
वदन्ति वेदास्त्वां सन्तः परब्रह्मस्वरूपिणम् ।
भवन्तं तत्त्वमित्यद्य तेजोराशिं परात्परम् ॥ १६॥
परमात्मानमित्याहुररस्मिन् जगति यद्विभो ।
त्वमेव शर्व सर्वात्मन् त्रिलोकाधिपते भव ॥ १७॥
दृष्टं श्रुतं स्तुतं सर्वं ज्ञायमानं जगद्गुरो ।
अणोरल्पतरं प्राहुर्महतोऽपि महत्तरम् ॥ १८॥
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वतश्श्रवणघ्राणं त्वां नमामि च सर्वतः ॥ १९॥
सर्वज्ञं सर्वतो व्यापिन् सर्वेश्वरमनावृतम् ।
विश्वरूपं विरूपाक्षं त्वां नमामि च सर्वतः ॥ ५.६.२०॥
सर्वेश्वरं भवाध्यक्षं सत्यं शिवमनुत्तमम् ।
कोटिभास्करसङ्काशं त्वां नमामि च सर्वतः ॥ २१॥
विश्वदेवमनाद्यन्तं षट्त्रिंशत्कमनीश्वरम् ।
प्रवर्तकं च सर्वेषां त्वां नमामि च सर्वतः ॥ २२॥
प्रवर्तकं च प्रकृतेस्सर्वस्य प्रपितामहम् ।
सर्वविग्रहमीशं हि त्वां नमामि च सर्वतः ॥ २३॥
एवं वदन्ति वरदं सर्वावासं स्वयम्भुवम् ।
श्रुतयः श्रुतिसारज्ञं श्रुतिसारविदश्च ये ॥ २४॥
अदृश्यमस्माभिरनेकभूतं त्वया कृतं यद्भवताथ लोके ।
त्वामेव देवासुरभूसुराश्च अन्ये च वै स्थावरजङ्गमाश्च ॥ २५॥
पाह्यनन्यगतीन् शम्भो सुरान्नो देववल्लभ ।
नष्टप्रायांस्त्रिपुरतो विनिहत्यासुरान्क्षणात् ॥ २६॥
मायया मोहितास्तेऽद्य भवतः परमेश्वर ।
विष्णुना प्रोक्तयुक्त्या त उज्झिता धर्मतः प्रभो ॥ २७॥
सन्त्यक्तसर्वधर्मांश्च बोद्धागमसमाश्रिताः ।
अस्मद्भाग्यवशाज्जाता दैत्यास्ते भक्तवत्सल ॥ २८॥
सदा त्वं कार्यकर्त्तासि देवानां शरणप्रद ।
वयं ते शरणापन्ना यथेच्छसि तथा कुरु ॥ २९॥
इति शिवपुराणे रुद्रसंहितायां युद्धखण्डे षष्ठाध्यायान्तर्गतं
देवैः कृतं शिवस्तोत्रं समाप्तम् ।
शिवपुराण । रुद्रसंहिता । युद्धखण्ड । अध्याय ६/१०-२५॥
shivapurANa . rudrasaMhitA . yuddhakhaNDa . adhyAya 6/10-25..
Proofread by PSA Easwaran