देवैः कृतं १६ शिवस्तोत्रम्
देवा ऊचुः ।
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरोऽसि ॥ २०॥
कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ २०॥
सर्वमूर्ते नमस्तेऽस्तु विश्वभावन पावन ॥ २१॥
अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ २१॥
चन्द्रोऽगदो हि देवेश कृपातस्तव शङ्कर ॥ २२॥
निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ २२॥
सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ २३॥
सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ २३॥
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ २४॥
सुदर्शनमरक्षस्त्वं नृपमण्डलभीतितः ॥ २४॥
मेदुरं तारयामास सदारं च घृणानिधिः ॥ २५॥
शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ २५॥
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ २६॥
सौमिनी भवबन्धाद्वै मुक्ताऽभूत्तव सेवनात् ॥ २६॥
विष्णुरुवाच ।
त्वं शम्भो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ २७॥
कर्ता पाता तथा हर्ता जनानुग्रहकाङ्क्षया ॥ २७॥
सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ २८॥
सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ २८॥
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ २९॥
त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ २९॥
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृताञ्जलिः ॥ ३०॥
एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ३०॥
ब्रह्मोवाच ।
जय देव महादेव प्रणतार्तिविभञ्जन ॥ ३१॥
ईदृशेष्वपराधेषु कोऽन्यस्त्वत्तः प्रसीदति ॥ ३१॥
लब्धमानो भविष्यन्ति ये पुरा निहिता मृधे ॥ ३२॥
प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ३२॥
यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ ३३॥
तदिदं भूषणं मन्ये त अङ्गीकारगौरवात् ॥ ३३॥
इति शिवपुराणे वायवीयसंहितायां पूर्वखण्डे त्रयोविंशाध्यायान्तर्गतं
देवैः कृतं शिवस्तोत्रं समाप्तम् ।
शिवपुराण । वायवीयसंहिता । पूर्वभाग १ । अध्याय २३/२०-३३॥
shivapurANa . vAyavIyasaMhitA . pUrvabhAga 1 . adhyAya 23/20-33..
Proofread by PSA Easwaran