देवैः कृतं २२ शिवस्तोत्रम्

देवैः कृतं २२ शिवस्तोत्रम्

देवा ऊचुः । नमस्ते देवदेवेश भक्तानामभयप्रद । नमस्ते जगदाधार शशिराजितशेखर ॥ १.३७॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमापस्त्वं मही विभो । त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ १.३८॥ त्वं पासि च सुरश्रेष्ठ तथा नाशं नयिष्यसि । त्वं विष्णुस्त्वं चतुर्वक्त्रस्त्वं चन्द्रस्त्वं दिवाकरः ॥ १.३९॥ त्वया विना महादेव न किञ्चिदिह विद्यते । अपि कृत्वा महत्पापं नरो देव धरातले ॥ १.४०॥ तव नामापि सङ्कीर्त्य प्रयाति त्रिदिवालयम् । महादेव महादेव महादेवेति कीर्तनात् ॥ १.४१॥ कोटयो ब्रह्महत्यानामगम्यागमकोटयः । सद्यः प्रलयमायान्ति महादेवेति कीर्तनात् ॥ १.४२॥ विप्रो यथा मनुष्याणां नदीनां वा महार्णवः । तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः ॥ १.४३॥ नक्षत्राणां यथा चन्द्रः प्रदीप्तानां दिवाकरः । तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः ॥ १.४४॥ धातूनां काञ्चनं यद्वद्गन्धर्वाणां च नारदः । तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः ॥ १.४५॥ ओषधीनां यथा सस्यं नगानां हेमपर्वतः । तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः ॥ १.४६॥ तस्मात्कुरु प्रसादं नः सर्वेषां च नृणां विभो । सन्धारय पुनर्लिङ्गं स्वकीयं सुरसत्तम ॥ १.४७॥ नोचेज्जगत्त्रयं देव नूनं नाशममुपेष्यति । यद्येतद्भूतले लिङ्गं पतति स्थास्यति प्रभो ॥ १.४८॥ इति श्रीस्कन्दपुराणे नागरखण्डे प्रथमाध्यायान्तर्गतं देवैः कृतं शिवस्तोत्रं समाप्तम् । स्कन्दपुराण । नागरखण्ड । अध्याय १/३७-४८॥ skandapurANa . nAgarakhaNDa . adhyAya 1/37-48.. Proofread by PSA Easwaran
% Text title            : Devaih Kritam 22 Shiva Stotram
% File name             : devaiHkRRitaM22shivastotram.itx
% itxtitle              : shivastotram (devaiH kRitaM 22 skandapurANAntargatam namaste devadevesha bhaktAnAmabhayaprada)
% engtitle              : devaiH kRRitaM 22 shivastotram
% Category              : shiva, skandapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | nAgarakhaNDa | adhyAya 1/37-48||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : July 6, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org