देवैः कृतं २४ शिवस्तोत्रम्
इति संहत्य देवाद्या जग्मुर्द्रष्टुं सतीतपः ।
प्रणेमुस्तां जगद्धात्रीं ततो जग्मुर्हरं प्रति ॥ ६९॥
ददृशुः सुखमासीनं प्रसन्नं भक्तवत्सलम् ।
योगपट्टस्थितं नत्वा तुष्टुवुः शङ्करं च ते ॥ ७०॥
नमोऽस्तु तापनाशाय शान्तिदाय नमोनमः ।
पार्वतीतपसां सम्यक् फलदात्रे नमोनमः ॥ ७१॥
यदि त्वं रागहीनः सन्पार्वतीं न ग्रहीष्यसि ।
तर्हि सा तपसा सर्वं धक्ष्यत्येतच्चराचरम् ॥ ७२॥
किं च पाणिग्रहे तस्या देवकार्यं भविष्यति ।
तस्मात्तस्यै वचो दत्वा तपोरोधं कुरु द्रुतम् ॥ ७३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
१८६-अध्यायान्तर्गतं देवैः कृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १८६/६९-७३॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 186/69-73..
Proofread by PSA Easwaran