देवैः कृतं शिवस्तोत्रम्
(शिवरहस्यान्तर्गते उग्राख्ये)
देवा ऊचुः
भव हर नामस्मरणं
कृतमघकुलहरमतिशुभदम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ६१॥
स्मृतमपि (?) जय जय शम्भो
गिरिजाबन्धो जय जय शम्भो भूतपते ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ६२॥
नामैवोत्तमं तव हर विमलं
मङ्गलदायकं मङ्गलदम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ६३॥
तव पदकमलादमला
दन्यच्चिन्तितमपि न चेतसा शम्भो ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ६४॥
शिवमयमशिवं न भजाम-
स्त्वयि सति सशिवे शिवमूर्ते ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ६५॥
शिव सुरनायक मङ्गलविग्रह
कुरु कुरु मङ्गलमाशु विभो ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ६६॥
शरणं यामश्चरणद्वन्द्वं
तव कमलामलमनुवेलम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ६७॥
भगवन्भवता भवतापहृता
न हृतं दुरितं किं नु कृतम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ६८॥
सकृदपि तव हर नामस्मरणं
कृतमघकुलहरमतिशुभदम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ६९॥
स्मृतमपि हर तव चरणद्वन्द्वं
हरति विषादं किमु दृष्टम (भवलब्धम्) ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७०॥
भव भवदीयानस्माननिशं
कुरु गतदुःखानतिदुःखान् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७१॥
हर यद्यस्मत्कृतमपराधं
विविधं कृपया हरसि तदा ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७२॥
सुतमपराधिनमपि कृत-
शिक्षं जनकः पालयतीश तथा ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७३॥
न सुता वयमपि तव किं
शम्भो जनकः स भवानस्माकम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७४॥
जगतामेको जनकस्त्वमतो
वयमपि जगतो नहि भिन्नाः ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७५॥
भवता सृष्टाः सकला
लोका वयमपि तद्वद्धर सृष्टाः ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७६॥
भवता सृष्टं जगदिव सृष्टा-
नस्मानपि भव पालय नित्यम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७७॥
देव गजासुरपरिहृतविभवा-
नभयद सभयानव सदयम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७८॥
करुणापारावार-
स्त्वमतो हर सुरवर दुःखम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ७९॥
शरणं भव शरणं भव
भव शरणं भव भव करुणाब्धे ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ८०॥
भव भवदन्यं न वयं
यामः सकृदपि शरणं मरणे वा ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ८१॥
न हि जानीमो भवदन्यं
शङ्कर धीरं वा पातारम् ।
गिरीश महापज्जलधे-
रस्मानुद्धर धीर कृपाजलधे ॥ ८२॥
- -
अगस्त्यः (उवाच)
इति स्तुतो महादेवो विष्णुब्रह्मपुरोग मैः ।
प्रसन्नस्तानुवाचैवं घनगम्भीरया गिरा ॥ ८३॥
महादेवः उवाच
जानामि भवतां दुःखं ब्रह्मविष्णुपुरोगमाः ।
गजासुरं हनिष्यामि पश्यन्त्वद्याधुना ध्रुवम् ॥ ८४॥
भवद्भिर्या कृता पूजा स्तुतिश्चेयं च या कृता ।
एताभ्यां स्तुति पूजाभ्यां तुष्टोऽस्म्यहमुमापतिः ॥ ८५॥
भवत्कृतेन स्तोत्रेण यो मां स्तोष्यति सादरम् ।
स दुःखसागरं तीव्रं तरिष्यति न संशयः ॥ ८६॥
॥ इति शिवरहस्यान्तर्गते देवैः कृतं शिवस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २८ मध्यार्जुनमहिमानुवर्णनम् । ६१-८६॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 28 madhyArjunamahimAnuvarNanam . 61-86..
Notes:
Viṣṇu विष्णु, Brahmā ब्रह्मा et al Devāḥ देवाः eulogize and beseech Śiva शिव to protect them from Gajāsura गजासुर.
Mahādeva Śiva महादेव शिव assures them of their safety and declares that He will also relieve the distress of whosoever praises Him with the Stotram स्तोत्रम् they have composed.
Proofread by Ruma Dewan