देवकृतोपनिषत्सार शिवस्तवः
ब्रह्मैव त्वं त्रिधोर्ध्वस्त्वं गतिः पुष्टिर्महेश्वरः ।
विश्वञ्च विश्वातीतस्त्वं हुतं प्रहुतमेव च ॥ २२॥
कृतं चाकृतमेते च परमं च परायणम् ।
नारायणादिजनको ह्यर्यम्णो वरुणस्य हि ॥ २३॥
जनिता त्वं तथा वायोर्द्यावाभूस्योर्महेश्वरः ।
सर्वेशस्सर्वसाक्षी च सर्व एवं त्वमेव हि ॥ २४॥
अग्राह्यस्सर्वभूतेषु सर्वेन्द्रियगुणातिगः ।
अलिङ्गोस्यशरीरस्त्वं व्यापकश्च सनातनः ॥ २५॥
वामनं त्वां महादेवं सर्वेदेवा उपासते ।
त्वत्तो जातं जगच्छम्भो स्थितं त्वय्येव लीयते ॥ २६॥
त्वत्तो नास्ति पृथक्किञ्चिन्न भिन्नं परमार्थतः ॥ २७॥
अजां मायां लोहितशुक्लकृष्णां बहूनस्माञ्जनयन्तीं सरूपाम् ।
अजस्त्वमेको जुषमाणोऽनुशेषे जहात्येनां भुक्तभोगामजस्त्वम् ॥ २८॥
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
तवावयवसम्भूतैर्व्याप्तं सर्वमिदं जगत् ॥ २९॥
नेह नानास्ति किञ्चिद्वै त्वदधिष्ठितमेव हि ।
त्वामवज्ञाय दुर्मेधाः कृतकृत्योऽभिमन्यते ॥ ३०॥
न साम्परायं प्रविदाम बाला मूढा वयं केवलं त्वद्विहीनाः ।
किञ्चित्तृणं चालयितुं च नेशास्त्वं नो गतिः परमं चासि शम्भो ॥ ३१॥
त्वयावृतं लोकमिदं समग्रं को वा हीनं चेतते त्वद्विहीनः ।
एको रुद्रस्त्वं हि सर्वस्य कर्ता विश्वातीतः परमश्चेतकोऽसि ॥ ३२॥
सर्वभूतातिगश्चात्मा कोशातीतः परात्परः ।
महाग्रासस्त्वमेवेश मृत्युस्त्वदुपसेचनः ॥ ३३॥
ओदनं तव भूतेश ब्रह्मक्षत्रं जगत्तथा ।
ब्रह्मपुच्छं प्रतिष्ठा त्वं शान्तिरक्षरमेव च ॥ ३४॥
हृदिस्था देवतास्सर्वा हृदि प्राणे प्रतिष्ठिताः ।
हृदयं पुरुषोऽसि त्वं तिस्रो मात्राः परश्च सः ॥ ३५॥
ओङ्कारः प्रणवो व्यापी ह्यनन्तोऽनन्तविक्रमः ।
तारं सूक्ष्मं वैद्युतस्त्वं शुक्लं सर्वशरीरगम् ॥ ३६॥
ईशानो भगवान् रुद्रो महादेवस्त्वमीश्वरः ।
परं ब्रह्म परं धाम परः पारः परायणः ॥ ३७॥
शूरो वीरः पुरुषो भूतसंस्थो विश्वो विश्वेशः प्राणदश्चाव्ययात्मा ।
चक्षुषश्चक्षुश्श्रोत्र एव त्वमीश मनसो मनो बुद्धेर्बोद्धा त्वमेव ॥ ३८॥
पतिः पतीनां पशवो वयं चाप्यस्मानहो पासि तथात्सि देव ।
त्वदुद्भवं सर्वमीशस्त्वमेको नानेव भासि पुरुषस्य मायया ॥ ३९॥
तिलेषु तैलं दधिनीव सर्पिरापस्त्रोतस्वरणीषु वह्निः ।
एवं प्रोतं त्वय्यद्वितीये महेश त्वज्जं त्वल्लं त्वदनं चैतदेव ॥ ४०॥
न विद्यते गुणकर्मादि नामरूपादिशक्तिर्ज्ञानशक्त्या विभिन्नः ।
हृदयस्त्वं भूतभव्यः पुराणो ह्येको वीरो वेदगुणैकवेद्यः ॥ ४१॥
ओङ्कारादिस्वररूपो महेश विधामा त्वं वरणीयस्तथाणुः ।
महान् जेता जिग्यश्चापराजितो ह्यभ्रावकाशः खञ्च कञ्च त्वमेव ॥ ४२॥
विभ्राट् संराट् भूमधामा त्वमेव पितासि माता भ्रातृकश्चादिवेद्यः ।
रुजां हरस्त्वं भिषक्पापहीनो ह्यपाणिपादो निर्विकारस्त्वमात्मा ॥ ४३॥
स्वयं भानः पर एको ज्योतिरेव त्वत्तो न ओजस्त्विष्टतमोऽस्ति देवः ।
त्वं न दिवा नैव रात्रिस्त्वमीशस्त्वं सीमा विश्वतश्चक्षुरीशः ॥ ४४॥
न वेदान्ता नापि वेदाश्च ते वै तव ज्ञानं मनसैवाद्य वृत्तम् ।
आकाशः पृथिवी सलिलं च वायुस्तेजश्चासि प्रथितं ते जगच्च ॥ ४५॥
विश्वस्य नेता विश्वभर्ता त्वमीशस्तव ज्ञानात्सर्वमेवेह विन्देत् ।
तवाज्ञानान्मोहितास्सर्व एव तव प्रसादादम्बया बोधितास्स्मः ॥ ४६॥
अवस्थातीतः पर आत्मा त्वमेव ब्रह्मैव त्वं संसरस्यादिरूपः ।
विशोको विमृत्युरजिघृत्सोऽपिपासश्शरीरहीनोऽप्यजरः पुराणः ॥ ४७॥
ऋतं सत्यं नामरूपातिगस्त्वं तवामेयरूपं को हि वेदेदमेव ।
ऋचो अक्षरे परमस्त्वं महेश नान्यत्वत्तो यद्भवेदेदमार्तम् ॥ ४८॥
नान्यदृक्पश्यति पश्यकस्त्वं दृष्टेर्दृष्टा वाच्यवाचादिहीनः ।
विद्याधीशस्स्वर एको महेशस्त्वमेव त्वं वेद योऽसीश एव ॥ ४९॥
नमस्ते हरसे शोचिषे ते नमस्ते अस्त्वर्चिषे देवदेवविश्वाधीशशङ्करो वेदवेद्यः ।
अन्यत्तपन्तु हेतयो घोररूपा भक्तेषु त्वं शिवो भव शत्रूनस्माकं जहि शूलेन शम्भो ॥ ५०॥
य इमं विश्वं भुवनं यासि जुह्वद्दष्टिः प्रथमो वो मनःपद्मसंस्थः ।
त्वमाशिषं द्रविणं धेहि शम्भो विश्वकर्ता मनसा सम्प्रदृश्यो धाता विधाता परमेप्यसन्दृक् ॥ ५१॥
तेषामिष्टानि तव पादपूजया सर्वं लभत्येव न हि संशयोऽत्र ।
त्वं नो माता त्वं पिता चोपनेता माता बन्धुः परमोवै गुरुस्त्वम् ॥ ५२॥
त्वं देवेषु प्रथितो नामतस्त्वेक एवेदं रुद्रस्त्वा मनाक्पूर्वसूराः ।
वेत्तुं च त्वां नूतनाश्चापि शम्भो ह्यपूतपूर्तं जगदेकं त्वयार्तम् ॥ ५३॥
यद्भूतजालं निखिलं वै विसृष्टमेतादृशं त्वां
न विदन्ति केचिद्द्दृष्ट्यान्तरेण परिपश्यन्ति मूढाः ।
मायानीहारप्रावृताशास्त्रजन्याः असूस्तृप्या भोगभाजो भुवः के ॥ ५४॥
यज्ञैर्दानैः कामकामैश्च बाला दिवः परः पृथिव्यास्त्वं परश्च ।
देवासुरैस्त्वं पुरो मूढगर्भो भूतानां त्वं महिमा गर्भरूपः ॥ ५५॥
कस्त्वां वेद भूतवर्गैर्विहीनं वेदैर्विश्वं यत्व लीनं त्वयीशे ।
अज त्वन्नाभौ जगदेतद्विचित्रं मध्येऽपितं यस्मिन् विश्वं भुवनं च त्वमेव ॥ ५६॥
ततो गन्धर्वा ओषधीशोऽपि शम्भो सर्वेन्द्रियाणि मनसा त्वां नमामः ।
हृदा पश्यन्ति मनसा मनीषिणो ये ब्रह्ममन्वान उपासते त्वाम् ॥ ५७॥
त्वामीदृशं गूढमनुप्रविष्टं सहैव सन्तं न विजानन्ति देवाः ।
विश्वस्य चक्षुर्विश्ववक्त्रोरुबाहुर्विश्वस्पतिर्भुवनस्यास्य गोप्ता ॥ ५८॥
द्यावाभूमी त्वत्त एवेद्धरश्मिस्सूर्यो भ्राजति खे सोमतारैर्गृहैश्च ।
नान्ये जानन्ति तव भक्त्या विहीना ह्यजातं त्वामीशं शरणं प्रपन्नाः ॥ ५९॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवकृतोपनिषत्सार शिवस्तवः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५४ - देवकृतोपनिषत्स्तुतिः । २२-५९॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 54 - devakRRitopaniShatstutiH . 22-59..
Notes:
Deva-s देवाः eulogize Śiva शिव as The One Who is Almighty and Above All, as propounded in The Upaniṣat उपनिषत् - the mystery that rests underneath the external system of things.
Encoded and proofread by Ruma Dewan