देवेन्द्रकृतं शतरुद्रीयं नाम शिवस्तोत्रम्
स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् ।
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ॥ ६५॥
स भवः स च पर्जन्यो महादेवः स चानघः ।
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥ ६६॥
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च ।
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ॥ ६७॥
स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् ।
सर्वासां देवतानां च धारयत्यवपुर्वपुः ॥ ६८॥
सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः ।
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ ६९॥
ईदृशः स महादेवो भूयश्च भगवानजः ।
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥ ७०॥
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् ।
स मोचयति सुप्रीतः शरण्यः शरणागतान् ॥ ७१॥
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ।
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ॥ ७२॥
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ।
स चैव व्याहृते लोके मनुष्याणां शुभाशुभे ॥ ७३॥
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ।
महेश्वरश्च भूतानां महतामीश्वरश्च सः ॥ ७४॥
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् ।
अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ॥ ७५॥
एष चैव श्मशानेषु देवो वसति नित्यशः ।
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥ ७६॥
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च ।
लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च ॥ ७७॥
नामधेयानि लोकेषु बहून्यत्र यथार्थवत् ।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥ ७८॥
वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् ।
नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः ॥ ७९॥
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः ।
स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् ॥ ८०॥
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा ।
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥ ८१॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ ८२॥
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् ।
महयन्ति च लोकाश्च महेश्वर इति स्मृतः ॥ ८३॥
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा ।
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥ ८४॥
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ॥ ८५॥
यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् ।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ ८६॥
एकाक्षो जाज्वलन्नास्ते सर्वतोऽक्षिमयोऽपि वा ।
क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः ॥ ८७॥
धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते ।
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ ८८॥
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः ।
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥ ८९॥
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु ।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ ९०॥
सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा ।
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥ ९१॥
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् ।
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ ९२॥
विषमस्थः शरीरेषु समश्च प्राणिनामिह ।
स वायुर्विषमस्थेषु प्राणापानशरीरिषु ॥ ९३॥
पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् ।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ ९४॥
ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः ।
आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते ॥ ९५॥
तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः ।
भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते ॥ ९६॥
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया ।
यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥ ९७॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ ९८॥
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ।
सङ्ग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् ॥ ९९॥
एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः ।
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥ १००॥
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संज्ञितम् ।
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ॥ १०१॥
सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् ।
सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥ १०२॥
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा ।
विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते ॥ १०३॥
चरितं महात्मनो दिव्यं साङ्ग्रामिकमिदं शुभम् ।
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥ १०४॥
भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा ।
वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः ॥ १०५॥
इति महाभारते द्रोणपर्वणि १७३ अध्यायान्तर्गतं
देवेन्द्रकृतं शतरुद्रीयं नाम शिवस्तोत्रं सम्पूर्णम् ।
महाभारत । द्रोणपर्व । अध्याय १७३/६५-१०५॥
mahAbhArata . droNaparva . adhyAya 173/65-105..
Proofread by PSA Easwaran