धनदकृतं शिवस्तोत्रम्
धनद उवाच ।
स्वामिंस्त्वमेवास्य चराचरस्य विश्वस्य शम्भो न परोऽस्ति कश्चित् ।
त्वामप्यवज्ञाय यदीह मोहात्प्रगल्भते कोऽपि स शोच्य एव ॥ २०॥
त्वमष्टमूर्त्या सकलं बिभर्षि त्वदाज्ञया वर्तत एव सर्वम् ।
तथाऽपि वेदेति बुधो भवन्तं न जात्वविद्वान्महिमा पुरातनम् ॥ २१॥
मलप्रसूतं यदवोचदम्बा हास्यात्सुतोऽयं तव देव शूरः ।
त्वत्प्रेक्षिताद्यः स च विघ्नराजो जज्ञे त्वहो चेष्टितमीशदृष्टेः ॥ २२॥
अश्रुप्लुताङ्गी गिरिजा समीक्ष्य वियुक्तदाम्पत्यमितीशमूचे ।
मनोभवोऽभून्मदनो रतिश्च सौभाग्यपूर्व(र्ण)त्वमवाप सोमात् ॥ २३॥
इति ब्रह्मपुराणे सप्तनवतितमाध्यायान्तर्गतं
धनदकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ९७/२०-२३॥
brahmapurANa . adhyAya 97/20-23..
Proofread by PSA Easwaran