धर्मकृतं १ शिवस्तोत्रम्
धर्म उवाच ।
नमो नमः कारणकारणानां नमो नमः कारणवर्जिताय ।
नमो नमः कार्यमयाय तुभ्यं नमो नमः कार्यविभिन्नरूप ॥ ३२॥
अरूपरूपाय समस्तरूपिणे पराणुरूपाय परापराय ।
अपारपाराय पराब्धिपारप्रदाय तुभ्यं शशिमौलये नमः ॥ ३३॥
अनीश्वरस्त्वं जगदीश्वरस्त्वं गुणात्मकस्त्वं गुणवर्जितस्त्वम् ।
कालात्परस्त्वं प्रकृतेः परस्त्वं कालाय कालात्प्रकृते नमस्ते ॥ ३४॥
त्वमेव निर्वाणपदप्रदोऽसि त्वमेव निर्वाणमनन्तशक्ते ।
त्वमात्मरूपः परमात्मरूपस्त्वमन्तरात्मासि चराचरस्य ॥ ३५॥
त्वत्तो जगत्त्वं जगदेव साक्षाज्जगत्त्वदीयं जगदेकबन्धो ।
हर्ताविता त्वं प्रथमो विधाता विधातृविष्ण्वीश नमो नमस्ते ॥ ३६॥
मृडस्त्वमेव श्रुतिवर्त्मगेषु त्वमेव भीमोऽश्रुतिवर्त्मगेषु ।
त्वं शङ्करः सोमसुभक्तिभाजामुग्रोऽसि रुद्र त्वमभक्तिभाजाम् ॥ ३७॥
त्वमेव शूली द्विषतां त्वमेव विनम्रचेतो वचसां शिवोऽसि ।
श्रीकण्ठ एकः स्वपदश्रितानां दुरात्मनां हालहलोग्रकण्ठः ॥ ३८॥
नमोऽस्तु ते शङ्कर शान्तशम्भो नमोऽस्तु ते चन्द्रकलावतंस ।
नमोऽस्तु तुभ्यं फणिभूषणाय पिनाकपाणेऽन्धकवैरिणे नमः ॥ ३९॥
स एव धन्यस्तव भक्तिभाग्यस्तवार्चको यः सुकृती स एव ।
तव स्तुतिं यः कुरुते सदैव स स्तूयते दुश्च्यवनादि देवैः ॥ २.७८.४०॥
कस्त्वामिह स्तोतुमनन्तशक्ते शक्नोति मादृग्लघुबुद्धिवैभवः ।
प्राचां न वाचामिहगोचरो यः स्तुतिस्त्वयीयं नतिरेव यावत् ॥ ४१॥
इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे अष्टसप्ततितमा- ध्यायान्तर्गतं
धर्मकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । उत्तरखण्ड । अध्याय ७८/३२-४१॥
skandapurANa . kAshIkhaNDa . uttarakhaNDa . adhyAya 78/32-41..
Proofread by PSA Easwaran