धर्मप्रोक्तं शिवस्तोत्रम्
(शिव-विष्णु (हरि-हर) ऐक्य)
काशीखण्डम् ।
अन्यच्च ते प्रवक्ष्यावो येन पश्यन्ति भास्करिम् ।
दण्डपाशोद्यतकरान्दूतानुग्राननान्क्वचित् ॥ ९८॥
गोविन्द माधव मुकुन्द हरे मुरारे
शम्भो शिवेश शशिशेखर शूलपाणे ।
दामोदराच्युत जनार्दन वासुदेव
त्याज्या भटाय इति सन्ततमामनन्ति ॥ ९९॥
गङ्गाधरान्धकरिपो हर नीलकण्ठ
वैकुण्ठ कैटभरिपो कमठाब्जपाणे ।
भूतेशखण्डपरशो मृड चण्डिकेश
त्याज्या भटाय इति सन्ततमामनन्ति ॥ १.८.१००॥
विष्णो नृसिंह मधुसूदन चक्रपाणे
गौरीपते गिरिश शङ्कर चन्द्रचूड ।
नारायणासुरनिबर्हण शार्ङ्गपाणे
त्याज्या भटाय इति सन्ततमामनन्ति ॥ १०१॥
मृत्युञ्जयोग्रविषमेक्षण कामशत्रो
श्रीकान्त पीतवसनाम्बुदनील शौरे ।
ईशान कृत्तिवसन त्रिदशैकनाथ
त्याज्या भटाय इति सन्ततमामनन्ति ॥ १०२॥
लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य
श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे ।
आनन्दकन्द धरणीधर पद्मनाभ
त्याज्या भटाय इति सन्ततमामनति ॥ १०३॥
सर्वेश्वर त्रिपुरसूदन देव देव
ब्रह्मण्यदेवगरुडध्वज शङ्खपाणे ।
त्र्यक्षोरगाभरण बालमृगाङ्कमौले
त्यज्या भटाय इति सन्ततमामनन्ति ॥ १०४॥
श्रीराम राघव रमेश्वर रावणारे
भूतेश मन्मथरिपो प्रमथाधिनाथ ।
चाणूरमर्दन हृषीकपते मुरारे
त्याज्या भटाय इति सन्ततमामनति ॥ १०५॥
शूलिन्गिरीश रजनीशकलावतंस
कंसप्रणाशन सनातन केशिनाश ।
भर्ग त्रिनेत्र भव भूतपते पुरारे
त्याज्या भटाय इति सन्ततमामनन्ति ॥ १०६॥
गोपीपते यदुपते वसुदेवसूनो
कर्पूरगौर वृषभध्वज भालनेत्र ।
गोवर्धनोद्धरण धर्मधुरीण गोप
त्याज्या भटाय इति सन्ततमामनन्ति ॥ १०७॥
स्थाणो त्रिलोचन पिनाकधर स्मरारे
कृष्णानिरुद्ध कमलाकर कल्मषारे ।
विश्वेश्वर त्रिपथगार्द्रजटाकलाप
त्याज्या भटाय इति सन्ततमामनन्ति ॥ १०८॥
अष्टोत्तराधिकशतेन सुचारुनाम्नां
सन्दर्भितां ललितरत्नकदम्बकेन ।
सन्नायकां दृढगुणां द्विजकण्ठगां यः
कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ १०९॥
इत्थं द्विजेन्द्र निजभृत्यगणान्सदैव
संशिक्षयेदवनिगान्स हि धर्मराजः ।
अन्येऽपि ये हरिहराङ्कधरा धरायां
ते दूरतः पुनरहो परिवर्जनीयाः ॥ १.८.११०॥
अगस्तिरुवाच ।
यो धर्मराजरचितां ललितप्रबन्धां
नामावलिं सकलकल्मषबीजहन्त्रीम् ।
धीरोऽत्र कौस्तुभभृतः शशिभूषणस्य
नित्यं जपेत्स्तनरसं स पिबेन्न मातुः ॥ ११॥
इति शृण्वन्कथां रम्यां शिवशर्माप्रियेऽनघाम् ।
प्रहृष्टवक्त्रः पुरतो ददर्शाप्सरसां पुरीम् ॥ ११२॥
इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे अष्टमाध्यायान्तर्गतं
धर्मकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । पूर्वखण्ड । अध्याय ८/९८-१०९॥
skandapurANa . kAshIkhaNDa . pUrvakhaNDa . adhyAya 8/98-109..
Proofread by PSA Easwaran