कैलासक्षेत्रस्थितं दिव्यालयावर्णनम्
॥ हिमावन्प्रति नन्दीश्वरप्रोक्तं कैलासक्षेत्रस्थितं दिव्यालयावर्णनम् ॥
(शिवरहस्यान्तर्गते कैलासदर्शनम् - २)
नन्दीश्वरः -
गणेश्वरस्य सदनं पश्य कुम्भविराजितम् ।
हरसौधमिमं पश्य चा(अ)त्यर्कच्छदसुन्दरम् ॥ २३.१॥
पाटलीनां वनं पश्य बहुधामोदगन्धितम् ।
पाटलीशागारमेतत्पापपाटनचञ्चुरम् ॥ २३.२॥
स्वर्णतालीवनं पश्य पश्य यत्र घर्घरमारुतम् ।
तालेशशिखरं भाति दधिकल्लोलिनीन्तिम् ॥ २३.३/? ॥
मुञ्जिकेशक्षयं पश्य पश्य नागेश्वरालयम् ।
विद्येशस्य निवेशञ्च पश्य सोमेश्वरालयम् ॥ २३.४/? ॥
शरणं शरणं शम्भो पुन्नगवनमध्यगम् ।
बिल्वेश्वरस्य शिखरं पश्य बिल्ववनान्तरे ॥ २३.५/? ॥
गन्धवर्णेशशिखरं पश्य सालवनं महत् ।
दशसाहस्रगम्भीररत्नस्तम्भोरुमण्टपः ॥ २३.६/? ॥
सिह्मेश्वरालयं पश्य पश्य रुद्राक्षकाननम् ।
रुद्ररूपमहावृक्षैर्युतं पापभयापहम् ॥ २३.७/? ॥
भस्मधा(सा)रसरश्चापि पश्याद्य(त्र) कुसुमोज्व(ज्ज)लम् ।
भस्मेश्वरालयं पश्य दर्शनात्पापभस्मकृत् ॥ २३.८/४॥
गन्धशैलोरुशिखरे पश्य गन्धेश्वरालयम् ।
चन्दनानां वनं पश्य नयनानन्ददायकम् ॥ २३.९/५॥
घृतकुल्यामिमां पश्य तप्ताच्छघृतगन्धिताम् ।
घृतेशधाम पश्यात्र नगेश्वर दृशोर्द्वयम् ॥ २३.१०/६॥
त्वं कृतार्थीकुरु क्षिप्रं क्षिप्रेशालयलोकनात् ।
उत्तरं गोपुरं पश्य महावृषभशेखरम् ॥ २३.११/७॥
गारुडोद्गारि(द्भासि)रत्नाच्छमण्टपं पश्य भूधर ।
पुष्परागोत्थ(गेश)शिखरं पश्यागरुवनं महत् ॥ २३.१२/८॥
देवदारुवनं पश्य देवदारेश्वरालयम् ।
कालाग्निरुद्रसदनं पश्याद्य(त्र) सुमनोहरम् ॥ २३.१३/९॥
गन्धर्वेशालयं पश्य देवेशशिखरं महत् ।
तरणीशालयं पश्य पद्मगर्भेश्वरालयम् ॥ २३.१४/१०॥
सुधाविपिनमप्यत्र पश्य खर्जूरकाव(न)नम् ।
पूगीवनमिदं पश्य देवा(देश)पर्णालयं नग ॥ २३.१५/११॥
भैरवेशालयं पश्य मणिखण्डेश्वरालयम् ।
सुधावापीयमतुला सुधया पूरितात्र तु ॥ २३.१६/१२॥
श्रीमहेशेन करुणाकटाक्षरसवीक्षणात् ।
तत्तीरे पश्य सुभगं सुधाधामेश्वरालयम् ॥ २३.१७/१३॥
अमृतेशालयं पश्य कूपः पापविनाशनः ।
जटेश्वरस्य शिखरं पश्य नन्दनकाननम् ॥ २३.१८/१४॥
पश्याम्रवन(ण)मेतद्वै तरुणारुणपल्लवम् ।
आम्रेश्वरालयं पश्य पश्य लिङ्गशताष्टकम् ॥ २३.१९/१५॥
बिल्वमन्दारसन्मौलिफणीफणविराजितम् ।
मणिगर्भगृहान्तस्थं(न्तःस्थ) त्रिपुण्ड्रोज्जवलभालकम् ॥ २३.२०/१६॥
उद्यदर्ककरप्रख्यं शिवप्रासादमीक्षय ।
कुरुविन्दमणिस्तम्भमणिमण्टपमीक्षय ॥ २३.२१/९७॥
पिप्पलेशालयं पश्य पश्याशोकवनं महत् ।
विशोकेशस्य सदनं पश्य मन्दारकाननम् ॥ २३.२२/१८॥
शुकेश्वरस्य सदनं पश्याद्य वरभूधर ।
दृशेशस्य महासद्म पश्य प्रासादकेश्वरम् ॥ २३.२३/१९॥
उरगेशालयं पश्य चेशानसदनं महत् ।
रुद्रेशस्यालयं पश्य पारिजातवनं महत् ॥ २३.२४/२०॥
रत्नप्रासादशिखरं पश्यात्र सुमनोहरम् ।
गिरिकेशालयं पश्य हरिकेशवनं नग ॥ २३.२५/२१॥
सरोवरं तु पश्याद्य सागराख्यमिदं नग ।
सागरेशस्य शिखरं पश्यात्र सुमनोहरम् ॥ २३.२६/२२॥
उत्पलेशालयं पश्य कुमुदेशालयं ततः ।
हंसेश्वरमहाधाम धाम भद्रेश्वरस्य च ॥ २३.२७/२३॥
तत्प्रासादस्य सौधाग्रं पश्यैतद्वृषलाच्छितम् ।
मणिज्योतीश्वरं पश्य मौलिं कामेश्वरस्य च ॥ २३.२८/२४॥
मधूकखण्डमप्यत्र द्राक्षावल्लीवनं ततः ।
कैलासगङ्गां(ङ्गा) तत्रैव वीक्षयाद्य नगोत्तम ॥ २३.२९/२५॥
तत्प्रान्तार्बुदलिङ्गानां सौधमालां विलोकय ।
कुम्भावलीमिमां पश्य दर्शनात्पापनाशिनीम् ॥ २३.३०/२६॥
तमालवनमध्यस्थं मालीशशिखरं दृशा ।
पश्य त्वं सुन्दरेशस्य कपर्दीशालयं तथा ॥ २३.३१/२७॥
यक्षेश्वरस्याभयदं पापभक्षेश्वरस्य च ।
वनेशोऽयं मतङ्गेशः प्लक्षेशोऽयं द्रुतीश्वरः ॥ २३.३२/२८॥
शिखरं विनतेशस्य वसतीशस्य लोकय ।
एलावनमिदं पश्य रत्नगुच्छैर्विराजितम् ॥ २३.३३/२९॥
कुलाचलानां सौधोरुलिङ्गकुम्भान्विलोकय ।
तवधाम महामौलिलिङ्गं च हिमभूधर ॥ २३.३४/३०॥
तत्पुरस्ताद्रत्नभूमिस्सुधासिन्धर्विराजते ।
तरङ्गमालाविततो सुधापिण्डोरुफेनवान् ॥ २३.३५/३१॥
तन्मध्ये च मणिद्वीपश्चाकचक्यैश्चकास्ति वै ।
मणिद्वीपोऽयमतुलश्श्रीपुरं तत्र राजते ॥ २३.३६/?? ॥
मणिद्वीपेशशिखरं मध्ये पश्य नगोत्तम ।
मणिगङ्गातटं पश्य मणिगङ्गा सुधाब्धिगा ॥ २३.३७/३३॥
करञ्जवनमध्यस्थं करञ्जेश(शं)शिवालयम् ।
एवं शताष्टौ प्रकाराश्श्रीमहेशेन कल्पिताः ॥ २३.३८/३४॥
कैलासमौलो(लि)वितता(ताः) रत्नलिङ्गालयैस्सह ।
तत्रान्तरे च भवनं स्कन्दस्य गणपस्य च ॥ २३.३९/३५॥
स्कन्देश्वरस्य शिखरं पश्य विघ्नेश्वरस्य च ।
देव्या(य)न्तः सदनं तत्र मणिसौधं विलोकय ॥ २३.४०/३६॥
नानास्कन्दगणास्तत्र विघ्नेशस्य महागणाः ।
शक्तिपाशाङ्कुशक(ध)रास्तत्र प्राकाररक्षकाः ॥ २३.४१/३७॥
नवलक्षं पञ्चलक्षं ताभ्यां तत्रैव रक्षितम् ।
सद्योजातो वामदेवस्तत्पूर्षोऽघोर एव च ॥ २३.४२/३८॥
ईशानस्तत्र चान्तर्हि प्राकारपरिरक्षकः ।
स्वगणैस्तादृशैरेव प्रत्येकं लक्षसङ्ख्यया ॥ २३.४३/३९॥
स्वनाम्ना स्थाप्यलिङ्गानि दिव्यधामगतानि ते ।
सदा(ऽ)पचितिभिस्तत्र पूजयन्ति विलोकय ॥ २३.४४/४०॥
तन्मौलिकुम्भजालानि वीक्ष्य तानि (तच्च) नमस्कुरु ।
एवं तत्रान्तरेऽप्यन्याः पञ्चविंशतिमूर्तयः ॥ २३.४५/४१॥
पञ्च पञ्चान्त(पञ्चोत्त)रास्तत्र प्राकारपरिरक्षकाः ।
स्वनाम्ना स्थाप्य लिङ्गानि कैलासामलपर्वते ॥ २३.४६/४२॥
तत्रान्तरे महादेव्या वसतिश्शिवकल्पिता ।
नास्माकं प्रसरस्तत्र नानामणिगृहान्तरे ॥ २३.४७/४३॥
सख्यस्ततत्र (सख्यस्तस्या) महादेव्याः
सञ्चरन्ति निरीक्ष्यतां (गृहान्तरे) ।
तत्र लिङ्गोरुसद्मानि मणिकुम्भोज्ज्वलानि च ॥ २३.४८/४४॥
रुद्राण्यः पूजयन्त्येव तत्र लिङ्गायुतं नग ।
तत्रान्तरे महेशस्य मण्टपानां चतुष्टयम् ॥ २३.??/४५॥
ललामराजद्वृषभं मणिकुम्भोज्जवलच्छ्रियम् ।
तत्र देव्या महादेवो विहरत्येव निश्चितम् ॥ २३.४९/४६॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये हिमावन्प्रति नन्दीश्वरप्रोक्तं
कैलासक्षेत्रस्थितं दिव्यालयावर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २३ ॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 23 ..
Notes
Nandīśvara नन्दीश्वर details to Himāvan हिमावन् ; the several Divine Residences that abide in Kailāsa-kṣetra कैलासक्षेत्र, as He continues to conduct the guided tour of Kailāsadarshana कैलासदर्शन for Himāvan हिमावन्.
Śloka numbering differs amongst the two referenced texts on account of missing text in one of the source texts.
Proofread by Ruma Dewan