द्वादशज्योतिर्लिङ्गनामानि
महेश्वरः -
शृण्ष्वानुक्रमं तेषां लिङ्गानां मुक्तिदायकम् ।
केदारं प्रथमं लिङ्गमोङ्कारं तु द्वितीयकम् ॥ १॥
वैद्यनाथं तृतीयं स्याद्घुसृणेशं चतुर्थकम् ।
नागनाथं पञ्चमं स्यान्महाकालश्च षष्टकः ॥ २॥
भीमेशः सप्तमः प्रोक्तत्र्यम्बकं चाष्टमं विदुः ।
विश्वेशं नवमं लिङ्गं वाराणस्यां महेश्वरि ॥ ३॥
श्रीशैलो दशमः प्रोक्तः गोकर्णेशो दशाधिकः ।
सेतुमूले तु रामेशो द्वादशानामनुक्रमः ॥ ४॥
ज्योतिर्लिङ्गानि मे देवि यः पश्येत्संस्मरेत वा ।
ज्ञानं विनापि मुक्तिश्च भवतीत्येव मे मन ॥ ५॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे द्वादशज्योतिर्लिङ्गनामानि सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १। १२-१६॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 1. 12-16..
Notes:
Shiva outlines the twelve Jyotirlingas to Devi.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan