द्विजकृता शिवस्तुतिः १
(शिवरहस्यान्तर्गते उग्राख्ये)
- -
स्वस्वरूपं कृपासिन्धुर्दर्शयामास सत्वरम् ।
उमासंश्लिष्ठवामाङ्गं चन्द्रशेखरमीश्वरम् ॥ ६२२॥
दृष्ट्वा प्रहृष्टहृदयस्तुष्टावाष्टविधाकृतिम् ॥ ६२३॥
- -
द्विजः -
नमस्ते पृथिवीरूप नमस्ते जलरूपिणे ।
नमस्तेजःस्वरूपाय वायुरूपाय ते नमः ॥
नम आकाशरूपाय सूर्यरूपाय ते नमः ॥ ६२४॥
नमश्चन्द्रस्वरूपाय नमो यज्वरूपिणे ।
नमः सर्वस्वरूपाय व्यापकाय नमो नमः ॥ ६२५॥
नमस्त्रिशूलहस्ताय नमः परशुधारिणे ।
नमो विधूतपापाय गौरीनाथाय ते नमः ॥ ६२६॥
नमश्चन्द्रकिरीटाय परमाय नमो नमः ।
नमो वेदस्वरूपाय नीरूपाय नमो नमः ॥ ६२७॥
नमो वेदान्तवेद्याय भववैद्याय ते नमः ।
निष्कलाय नमस्तेऽस्तु निर्गुणाय नमो नमः ॥ ६२८॥
नमः शान्ताय ते शम्भो निरवद्याय ते नमः ।
निरञ्जन नमस्तेऽस्तु निष्प्रपञ्च नमो नमः ॥ ६२९॥
निर्लिप्ताय नमस्तेऽस्तु निराधाराय ते नमः ।
निरीशाय नमस्तेऽस्तु सर्वेशाय नमो नमः ॥ ६३०॥
नमो ज्ञानस्वरूपाय ज्ञानातीताय ते नमः ।
नमो ज्ञानैकगम्याय ध्यानगम्याय ते नमः ॥ ६३१॥
नमः परमरूपाय परमानन्दरूपिणे ।
सच्चिदानन्दरूपाय नमस्ते सर्वसाक्षिणे ॥ ६३२॥
नमो यज्ञस्वरूपाय यज्ञकर्मफलप्रद ।
नमस्ते करुणासिन्धो करुणामूर्तये नमः ॥ ६३३॥
अनन्तसोमसूर्याग्निप्रतिमाय नमो नमः ।
अनन्तामेयकल्याणगुणपूर्णाय ते नमः ॥ ६३४॥
सर्वज्ञाय नमस्तेऽस्तु भक्ताभीष्टप्रदाय च ।
भूतभावन भूतेश नमस्ते भक्तवत्सल ॥ ६३५॥
भूतव्रतप्रिय श्रीमन्नमस्ते भूतिभूषण ।
भूतिभूषितभक्तेष्टभूतिदानविचक्षण ॥ ६३६॥
अभयप्रद विश्वात्मन्वरदामरपूजित ।
विष्णुब्रह्मार्चितेशान प्रसीद गिरिजापते ॥ ६३७॥
॥ इति शिवरहस्यान्तर्गते द्विजकृता शिवस्तुतिः १ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। ६२२-६३७॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 622-637..
Notes:
Dvija द्विज eulogizes Śiva शिव as he receives His Darśana दर्शन.
The Dvijakṛtā Śivastutyāntargate ŚivaNāmāvaliḥ द्विजकृता शिवस्तुत्यन्तर्गते शिवनामावलिः १ that has been derived from this Stutiḥ स्तुतिः that can be referred to from the link given below.
Proofread by Ruma Dewan