द्विजकृता शिवस्तुतिः २
(शिवरहस्यान्तर्गते उग्राख्ये)
द्विजः (उवाच)
नमस्ते भक्तमन्दार नमस्ते वृषभध्वज ।
नमस्ते पार्वतीनाथ नमस्ते भस्मभूषण ॥ ३५९॥
नमस्ते प्रमथाधीश नमस्ते चन्द्रशेखर ।
नमस्ते करुणासिन्धो नमस्ते भक्तवत्सल ॥ ३६०॥
नमस्ते व्याघ्रचर्माङ्ग नमस्ते शेषभूषण ।
नमस्ते मृगहस्ताय नमस्ते शूलपाणये ॥ ३६१॥
नमस्ते कालकालाय नमस्ते त्रिपुरान्तक ।
नमस्ते पुण्यरूपाय नमस्ते यज्ञरूपिणे ॥ ३६२॥
नमस्ते ज्ञानवृत्ताय नमस्ते वृत्तिरूपिणे ।
नमस्ते वीरभद्राय भद्ररूपाय ते नमः ॥ ३६३॥
नमस्ते भद्रकाराय नमस्ते भद्रद प्रभो ।
नमस्ते परमोत्कृष्ट परब्रह्मन्नमोऽस्तु ते ॥ ३६४॥
नमस्ते निर्गुणामेय नमस्ते सुगुण प्रभो ।
नमस्ते सर्वदेवेश नमस्ते सर्वपालक ॥ ३६५॥
नमस्ते सर्ववन्द्येश नमस्ते सर्वपूजित ।
नमस्ते गिरिरूपाय नमस्ते वनरूपिणे ॥ ३६६॥
नमस्ते सर्वरूपाय पार्वतीशाय ते नमः ।
लिङ्गरूप नमस्तेऽस्तु नमस्ते लिङ्गपूजिते ॥ ३६७॥
॥ इति शिवरहस्यान्तर्गते द्विजकृता शिवस्तुतिः २ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २४। ३५९-३६७॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 24 . 359-367..
Notes:
The Dvijakṛtā Śivastutyāntargate ŚivaNāmāvaliḥ द्विजकृता शिवस्तुत्यन्तर्गते शिवनामावलिः २ that has been derived from this Stuti stutiH can be referred to from the link given below.
Proofread by Ruma Dewan