द्विजकृता शिवस्तुतिः ३
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
प्रसीद पार्वतीनाथ प्रसीद परमेश्वर ॥ २६.२॥
प्रसीद सच्चिदान्द प्रसीद करुणानिधे ।
नमस्ते सर्वजगतां नाथ कारण शङ्करम् ॥ २७॥
पालकाय नमस्तुभ्यं संहर्त्रे च नमो नमः ।
सत्वं रजस्तमश्चेति त्रिभिर्मायागुणैर्वृतः ॥ २८॥
त्रिधा स्थितस्त्वमखिलं सृजस्यवसि हंसि च ।
कार्याद्यैर्नवभिर्लिङ्गैस्तथैवाष्टतनुं विभुम् ॥ २९॥
सर्वज्ञं सर्वकर्तारमाहुस्त्वां मानवेदिनः ।
जीवादिभिन्नमेकं त्वां जीवं केचित्प्रचक्षते ॥ ३०॥
भिन्नाऽभिन्नं परकेऽपि भेदाभेदविवर्जितम् ।
चिन्मयख्यापिनं नित्यं शान्तमेकं सदाशिवम् ॥ ३१॥
सर्वानुग्राहकं शम्भुं त्वां वदन्ति त्वदागमाः ।
निगमाश्च वदन्ति त्वां महेशं पुरुषोत्तमम् ॥ ३२॥
सर्वज्ञं सौगताः सिद्धाः परमेष्ठिनमार्हताः ।
हा हन्त कारवोऽप्याहुर्विश्वकर्मेति शङ्करम् ॥ ३३॥
विलोक्य कापिलाश्चापि लोकेसिद्धेश्वरं विदुः ।
त्वत्कृपामृतनिष्यन्दिनयनान्तविलोकितैः ॥ ३४॥
भूयते मुक्तितरुणी पाणिग्रहपरैर्नरैः ।
द्रष्टुमीष्टे शिरो यस्य न वेधाश्चरणं हरिः ॥ ३५॥
तस्य ते महिमानं कः क्षमो वर्णयितुं विभोः ।
अस्तातिशयसाम्यस्त्वं विश्वाधिक इति श्रुतौ ॥ ३६॥
गीयसे त्वां विदित्वैव मुक्तिर्नान्येन हेतुना ।
अपराधसहस्राणां भाजनं मामनुक्षणम् ॥ ३७॥
कृपया केवलं नाथ कृतार्थमकृथाः स्वयम् ॥ ३८॥
॥ इति शिवरहस्यान्तर्गते द्विजकृता शिवस्तुतिः ३ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ५० । २६.२-३८।१॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 50 . 26.2-38.1..
Proofread by Ruma Dewan